________________
३९) भ. २. सू. १४ ] काव्यानुशासनम्
वीरमाह
३९) नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः ॥ १४ ॥
प्रतिनायकवर्तिनयविनयासंमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधिक्षेपादिविभावः स्थैर्यधैर्यशौर्यगाम्भीर्यत्यागवैशारद्याद्यनुभावो धृतिस्मृत्योयगर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणी - यतां गतो धर्मदानयुद्धभेदात्रिधा वीरः । यथा
रनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयावनद्धं हस्ताभ्यामविचलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य । अत एव स भीमः कातरत्रासदायी । तवेति । यस्यास्तत्तदपमानजातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यति उत्तंसवतः
1
›
रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥' इति ।
1. A. B. पीडनैव
करिष्यतीति वेणीत्वमपहरन् करविच्युतशोणितशकल कैलोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । तव देवीत्यनेन कुलकलत्रखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः, स च संचूर्णितोरुत्वादेव । स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा सूचिता ।
नयेति । संध्यादिगुणानां सम्यक् प्रयोगो नयः । इन्द्रियजयो विनयः । असंमोहेनाध्यवसायो वस्तुतत्त्वनिश्चय इति मन्त्रशक्तिर्दर्शिता । हस्त्य - श्वरथपादातं बलम् । अवस्कन्दयुद्धादौ सामर्थ्य शक्तिः । शत्रुविषये संताप - कारिणी प्रसिद्धिः प्रतापः । अभिजनधनमन्त्रिसंपत् प्रभावः । सामाद्युपायानामेकद्वित्रिचतुरादिभेदेर्यथाविषयं नियोजनं वैशारद्यम् ।
२०
धर्मेति धर्मादि त्रितयमनुभावात्मकं प्रतिनायकगतं तु विभावरूपमिति तद्भेदाद्वीरस्य त्रैविध्यमित्यर्थः । यदाह भरतः -
(
( 42 ) दानवीरं धर्मवीरं युद्धवीरं तथैव च ।
Jain Education International
[ ना. शा. अ. ६ श्लो. ७३]
११७
For Private & Personal Use Only
१०
१५
२५
www.jainelibrary.org