________________
३६) अ. २. सू. ११] काव्यानुशासनम्
यद् भरतः (11) उत्फुल्लानननेत्रं तु गण्डैविकसितैरथ ।
किंचिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितं । निकुञ्चितांसकशिरस्तचोपहसितं भवेत् ।। संरब्धसास्रनेत्रं च विक्रुष्टस्वरमुद्धतम् ।। करोपगूढपार्थं च तच्चातिहसितं भवेत् ॥ ।
[ना. शा. ६. ५५, ५७, ५९ ] तत्रात्मस्थो हासो यथापाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेर्हास्योद्गमः पातु वः ॥१०९॥
[शृ. ति. परि. ३. उदा. श्लो. ९] परस्थो यथा-- कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बितां । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥११०॥
[क. व. स. ४९ वैद्दोकस्य ] दन्तोदकविकारानुरूपदर्शनात् संक्रमणस्वभावः, तथा हासोऽपि संक्रामति, नान्ये । यस्तु स्वामिशोकाभृत्यस्य शोकः सोऽन्य एव शोकवत्स्वामिविभावको विभावभेदात् । इह च तद्विभावक एव हास्यः संक्रामतीत्यर्थः । स्मितं हि यदुत्तमप्रकृतौ तत्संक्रान्तं हसितं संपद्यते । एवं विहसितं मध्यमप्रकृतौ संझान्तमुपहसितम् । अपहसितमधमप्रकृतौ संक्रान्तमतिहसितमिति । स्मितस्य ईषत्तायां व्यपगतायां हसितम् , ततो विशेषेण, ततोऽपि परस्य समीपं गतम् , “अन्यदपहस्त्य हसितमतिशयेन च, इत्युपसर्गभेदादेवार्थभेदः । । 1. P. प्रियाहसिते
3. C. परस्परस 2.A. B. °कोऽपि
4. C. drops इस्त्य
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org