SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ २१५ . काव्यानुशासनम् [३५-३६) अ.२.सू.१०-११ न देशकालवयोवर्ण-वैपरीत्याद्विकृताः केशबन्धादयो वेषाः । आदि शब्दानर्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौष्ठकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनस्वेदास्यराग• पार्श्वग्रहणाद्यनुभावो निद्रावहित्थत्रपालस्यादिव्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः । स चात्मस्थः परस्थश्च । तत्रात्मस्थमाह... ३५) उत्तममध्यामाधमेषु स्मितविहिसितापहसितैः स आत्मस्थस्नेधा ॥ १०॥ स इति हासः। यद् भरतः(10) ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ अस्थानहसितं यत्तु सामुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तचापहसितं भवेत् ॥ [ ना. शा. अ. ६. ५४, ५६, ५८] परस्थमाह.. . ३७) एतत्संक्रमर्हसितोपहसितातिहसितैः परस्योऽपि।११॥ एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिषु । संक्रान्त्येति । परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसलेकि दयः । तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः संपद्यत .एवेति । यथा अम्लदाडिमादिरसास्वादोऽन्यत्रापि 1. P. L. omit च 2.P. यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy