________________
३१) अ. २. सू. ६] काव्यानुशासनम्
लापक्षामनेत्र व चोवकतादीन संचरणानुकारकृतिलेख लेखनवाचनस्वभावनिहववार्ताप्रश्न नेहनिवेदनसात्त्विकानुभवन शीत सेवनमरणोद्यमसंदेशाधनुभावविधा, अभिलाषमानप्रवास भेदात् । करुण विप्रलम्भस्तु करुण एव । यथा
हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ १०० ॥
[ कु. सं. स. ४. लो. ९]
इत्यादि रतिप्रलापेषु ।
तत्राभिलाषविप्रलम्भमाह
देवपारवश्याभ्यामाचो द्वेधा ॥ ३१ ॥ आद्योऽभिलाषविप्रलम्भः । स दैवाद्यथाशैलात्मजापि पितुरुच्छरसोऽभिलाषं
व्यर्थ समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथंचित् ॥ १०१ ॥
[ कु. सं. स. ४ श्लो. ७५ ]
पारवश्याद्यथा
स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथाः ।
Jain Education International
१११
For Private & Personal Use Only
ܢ
२०
स्मरेति । स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रबुद्धत्वात् । सेन ऊढा परस्परसांमुख्यमबुद्धिपूर्वमेव नीता अनन्तरं गुरव एव श्वश्रप्रभृतयः सेतवः इच्छाप्रसरनिरोधकत्वात् । अथ च गुरवोऽलक्ष्याः सेतवस्तैर्विधृताः प्र. तिहतेच्छा अत एव पूर्णमनोरथास्तिष्ठन्ति तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैर मैर्नयनान्येव नलिनी - नालानि तैरानीतं रसं परस्पराभिलाषलक्षणमा स्वादयन्ति । परस्पराभिलाषात्मकदृष्टिच्छामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति ।
,
१५
१५
www.jainelibrary.org