________________
११०
ܙ
१५
२०
२५
काव्यानुशासनम्
कासनसंग प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
1
ईषद्वतिकन्धरः सपुलकः प्रेमोल्लसन्मानसा
[ ३०) अ. २. सू. ५
विप्रलम्भमाह
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ९९ ॥ [ अ. श. श्लो. १९
]
शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलाषमानप्रवासरूपो विप्रलम्भः ॥ ३० ॥
संभोगसुखास्वादलोभेन विशेषेण प्रलभ्यते । आत्माऽत्रेति विप्रलम्भः । स च शङ्कौत्सुक्यमदग्लानिनिद्रा सुप्तप्रबोधचिन्तासूयाश्रमनिर्वेदमरणोन्मादजडताव्याधिस्वमापस्मारादिव्यभिचारी संतापजागर कार्यप्र
Jain Education International
दृष्ट्वैकासनेति । एका निजत्वेन स्थिता । अपरा तत्सखी प्रना । कथमन्यथा एकासनसंगतिः । निमील्यमाननयना च न द्वेष्या । तत्त्वे हि प्रियतमे इति कथम् । क्रीडामनुबध्नाति यन्नयननिमीलनं तदेवापरनायिकाम्बनार्थ विहितं छलं येन सः । चुम्बनार्थमीषद्धक्रितकंधरो मनाग्वालितग्रीवः । सपुलकः उत्पन्नसात्त्विकः प्रेमोल्लसन्मानसादौ सपत्नीवञ्चनाभिमान एव हेतुः ।
शङ्केति । दुःखप्रायव्यभिचारीत्यर्थः । मरणमचिरकालप्रत्यापत्तिमयमत्र विवक्षितम्, येन शौकावस्थानमपि न लभते। यथा-— तीर्थे तोयव्यतिकर- ' इत्यादौ । अत एव सुकविना वाक्यभेदेनापि मरणं नाख्यातम् । प्रतीतिविश्रान्तिस्थानत्वपरिहाराय तृतीयपादेन च विभावानुसंधानं दर्शितम् । पुनर्प्रहणेन स एवार्थः सुतरां द्योतितः । अथवा चैतन्यावस्यैव प्राणत्यागकर्तृतात्मिका पाशबन्धायवसरगता मन्तव्या न तु जीवितवियोग: सुलभोदाहरणं चैतदिति । उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया, कुत्सिता तु संभवेऽपि नेति वृद्धाः । वयं तु ब्रूमः --- तादृश्यां दशायां जीवितनिन्दात्मिकार्या तद्देहोपभोगसाररत्यात्मकास्थाबन्धादि विच्छिद्यत एवेत्यसंभव एवेति ।
1. P. सपुलक मो०
1. A. B. C. शोकोव
For Private & Personal Use Only
www.jainelibrary.org