________________
२९) अ. २. सू. ४] काव्यानुशासनम् दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवचक्षुषोभग्नो मानकलिः सहासरभसव्यावृत्तकण्ठप्रहम् ॥९८॥
[अ. शं. २३ ] सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते । मुक्तकेषु तु काल्पनिक्येव । तत्र संभोगमाह- सुखमयधृत्यादिव्यभिचारी रोमाश्चाधनुभावः संभोगः।२९।
लज्जाधैर्निषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र संभुङ्कतः स संभोगः । स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाञ्चस्वेदकम्पाश्रुमेखलास्खलनश्वसितसाध्वसकेशबन्धनवस्त्रसंयमनवस्त्राभरणमाल्यादिस- १० म्यग्निवेशनविचित्रेक्षणचाटुप्रभृतिवाचिककायिकव्यापारलक्षणानुभावः । स च परस्परावलोकनालिङ्गनचुम्बनपानाद्यनन्तभेदः । यथा - सैषेति । स्त्रीपुंस ऋतुमाल्यादिका प्रबन्ध एवेति रत्नावल्यादौ । ऋतुमाल्यादिहि विभाव आलम्बनोद्दीपनतयोभयरूपोऽपि सामस्त्येन कारस्य विभावत्वेन मन्तव्यः । युक्त चैतत् , अन्यथा अत्रैव रूपके उद्यानऋतुमाल्या- १५ दीनां सर्वेषां दर्शनानको रसः स्यात् , विभावभेदात् ।
काल्पनिकीति । विभावादिवर्गस्य तावतस्तत्रानुसंधानं कल्पत इत्यर्थः ।
सुखमयेति। यद्यपि रतिश्रमकृतं निद्रादि संभोगेऽप्यस्ति, तथापि न तद्रतौ चित्रतामाधत्ते, विप्रलम्भे तु तद्रतिविभावनापरम्परोदितमेवेति युक्तमेवात्र सुखमयत्वम् । 1. I. L. संभुक्तः 2. I. °यिकमानसिक 3. I. drops स च 4. I. drops पाना 5. A. B. कृते 6. A. drops from संभोगे to परम्परोदि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org