________________
१०८
काव्यानुशासनम् । २८) अं. २. सू. १ अनुभावास्तु.संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्त इतीह नोक्ताः।
संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यत्य स तथा तेन न शृङ्गारस्येमौ मेदौ गोत्वस्येव शाबलेयबाहुलेयौ, अपि तु तदशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः स्वाधमानं रूपं शृङ्गारः। संभोगविप्रलम्भयोस्तु शृङ्गारशब्दो ग्रामैकदेशे ग्रामशब्दवदुपचारात् । तथा हि विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निराशत्वे तु करुण एव स्यात् । संभोगेऽपि न चेद्विरहाशङ्का तदा स्वाधीनेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः ।
यदाह मुनि:(41) यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।* दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः ॥
[ना. शा. अ. २२ श्लो. १९३ नि. सा. ] अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः। यथा . एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो
रन्योन्यं हृदयस्थितेप्यनुनये संरक्षतोगौरवम् । वामाभिनिधेशित्वमिति । (41) · सुलभावमानी हि मदनः '[ ] इति तद्विदः । तथास्यमिलध्यमाणं वस्तु प्राप्त चेत्कोऽमिलाषः । तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण वर्धिष्णुरयं कामः परमां प्रीतिं तनोति । न पत्र कण्ड्यायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वादतिः काम इत्यर्थः ।
1 P. drops तु * In मा. शा. (N. S. P.) the verse runs as follows.
यद्वामाभिनिवेशित्वं यतश्चैव निवार्यते ।
दुर्लभत्वं च यत्रार्या सा कामस्य रतिः परा ॥ The reading of fl. T. is decidedly better. In C. S. S. this verse occurs in 24 199. 2 L. तशादद्वय
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org