SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ २८) अ. २. सू. ३] काव्यानुशासनम् स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुरहय॑नदीचन्द्रपवनोद्यानदीर्घिकाजलक्रीडादयश्च श्रूयमाणा अनुभूयमाना वा आलम्बनोद्दीपनरूपविभावा यस्याः सा, जुगुप्सालस्यौग्यवर्जितव्यभिचारिणी समाविषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोदूंनोः परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्तव्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायीभावश्चर्वणागोचरं गता शृङ्गारो रसः। देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव न पुना रसः । देवविषया यथायैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितत्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ ९६ ॥ .. [भ. स्तो. श्लो. १२] मुनिविषया यथागृहाणि नाम तान्येव तपोराशिर्भवादृशः। संभावयति यान्येव पावनैः पादपांशुभिः ॥ ९७ ॥ स्वविभावप्रमदादिविषयमेव निषिद्धम् । तेन वपुरलसलसद्धाहु लक्ष्म्या ' इति तथा-' कतिचिदहानि वपुरभूत् केवलमलसेक्षणं तस्याः ।' इत्यादि न विरूपकं मन्तव्यम् । प्रारम्भादीति। एतेन अभिलाषमात्रसारायाः कामावस्थानुवर्तिन्या व्यभिचारिरूपाया रतेविलक्षणत्वमाह । 1. I. दीपनरूपा विभावा L. °द्दीपनविभावापा 2. I. व्यभिचारिका 3. P. देवगुरुमुनि + L. विषयानुभाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy