________________
. काव्यानुशासनम् [२७-२८)अ. २.स. २-३ रसभेदानाह
शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ता नव रसाः ॥ २७ ॥
तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान् प्रति हृयतेति पूर्व शृङ्गारः । तदनुगामी च हास्यः । निरपेक्षभावत्वात्तद्विपरीतस्ततः करुणः। ततस्तन्निमित्तमर्थप्रधानो रौद्रः । ततः कामार्थयोधर्ममूलत्वाद्धर्मप्रधानो वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीभत्सः । इतीयद्वीरेणाक्षिप्तम् । वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् । ततस्त्रिवर्गात्मकप्रवृत्तिधर्मविपरीतनिवृत्तिधर्मात्मको मोक्षफलः शान्तः । एते नवैव परस्परासंकीर्णा रसाः। तेनार्द्रतास्थायिकः स्नेहो रस इत्यसत् । तस्य रत्यादावन्तर्भावात् । तथा हि-यूनो मित्रे स्नेहो रतौ, लक्ष्मणादेर्धातरि स्नेहो धर्मवीरे, बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् । तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वा रतौ वाऽन्यत्र वान्तर्भावो वाच्यः । एवं भक्तावपि वाच्यम् । तत्र शृङ्गारमाह
स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः ॥ २८॥
नवैधेति । पुमर्थोपयोगित्वेन रजनाधिक्येन चेयतामेवोपदेश्यत्वादिति भावः । तस्येति स्नेहस्य । स्नेहो भक्तिर्वात्सल्यमिति हि रतेरेव विशेषाः । ' तुल्ययोर्या परस्परं रतिः स स्नेहः । अनुत्तमस्योत्तमे रतिः प्रसक्तिः । सैव भक्तिशब्दवाच्या । उत्तमस्यानुत्तमे रतिर्वात्सल्यम् । एवमादौ च विषये भावस्यैवास्वाद्यत्वमिति ।
जुगुप्तालस्यौग्यवर्जितव्यभिचारिणीति । जुगुप्सा स्थायिन्यपीह निषिदा न्यायसिद्ध स्थायिनामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादि च
1. व्यभिचारका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org