________________
काव्यानुशासनम् [२६) अ. २. स. १ यत्राप्येकैकस्योपदानं यथाकेलीकन्दलितस्य विभ्रममधोधुर्य वपुस्ते दृशोभङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः ! आपातेऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेकाकृतिः ॥ ९३ ।। अत्र विभावानाम् । यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिन दूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥ ९४ ॥
।
अत्रानुभावानाम् ।
दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किं चाञ्चितभूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ९५ ॥
[अ. श. श्लो. ४९.]
___ पकैकस्येति । विभावानामनुभावानां व्यभिचारिणां वा प्रधानत्वेन विवक्षितानामित्यर्थः । व्यभिचारिणां च प्राधान्यं तद्विभावानुभावप्राधान्यकृतं बेदितव्यम् । तत्र विभावप्राधान्ये व्यभिचारिणां प्राधान्यं यथा
आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहाँ । भजलो जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् । ॥ १६० ॥
1. I. L. दशौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org