________________
२६) अ. २ सू. १] काव्यानुशासनम्
१०३
स च विभावादेः कार्यस्तद्विनाशेऽपि रससंभवप्रसङ्गात् । नापि ज्ञाप्यः । सिद्धस्य तस्याभावात् । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेन्न क्वचिद्दृष्टमत्यलौकिकत्वसिद्धे भूषणमेतन्न दूषणम् । विभावादीनां च समस्तानामभिव्यञ्जकत्वं न व्यस्तानाम्, व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्रणाम् । अश्रुपा - तादयोऽनुभावाः करुणस्येव शृङ्गारभयानकयोश्चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गारवीरभयानकानाम् ।
वादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासना वेशवशाच्च न विघ्नान्तरादीनां संभवः । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य, तद्बोधापगमेsपि रससंभवप्रसङ्गात् । नापि इप्तिहेतवः, येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतस्य रसस्याभावात् । तहिं किमेतद्विभावादय इति । अलौकिक एवायं चर्षणोपयोगी विभावादिव्यवहारः । क्वान्यत्रेत्यं दृष्टमिति चेद्भूषणमस्माकमेतदलौकिकत्व सिद्धौ । पानकरसाखादोऽपि किं गुडमरिचादिषु दृष्ट इति समानमेतत् । नन्वेवं रसोऽप्रमेयः स्यात् । एवं युक्तं भवितुमर्हति रस्यतैकप्राणो ह्यसौ न प्रमेयादिखभावः । तर्हि सूत्रे निष्पत्तिरिति कथम्, नेयं रसस्य, अपि तु तद्विषयाया रसनायाः । तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते तत्र कश्विदत्र दोषः । सा च रसना न प्रमाणव्यापारो न कारकव्यापारः स्वयं तु नाप्रामाणिकी स्वसंवेदनसिद्धत्वात् । रसना च बोरूपैव किं तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगाद्रसना यतो निष्पद्यते ततस्तथाबिधरसनागोचरो लोकोत्तरोऽर्थो रस इति तात्पर्य सूत्रस्य ।
अयमत्र संक्षेपः। मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते । गाढप्रातनसंबित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधी विश्राम्यति । तत एवोभयदेशकालत्यागः रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया द्रष्टास्तत्रावलोकिताः देशकालानियमेन रतिं गमयन्ति । यस्यां स्वात्मापि तद्वासनावत्त्वादनुप्रविष्टः । भत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जनाभिव्यङ्गादिसंभावना । न च नियतपरात्मैकगततया येन दुःखद्वेषाद्युदयः । तेन सावारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः । साधारणीभावना च विभावादिभिरिति श्रीमानभिनवगुप्ताचार्यः । एतन्मल-मेष चास्माभिपजीवितमिति ।
1
Jain Education International
For Private & Personal Use Only
१०
१५
२०
२५
३०
www.jainelibrary.org