________________
१०२
कारणत्वादिभुवम-:
तिक्रान्तै विंभावनानुभावनासमुपरञ्जकत्वमात्रप्राणैरत एवालौकिक विभावादिव्यपदेशभाग्भः प्राच्चकारणादिरूपसंस्कारोपजीवनख्यापनाय विभावादिनानानामधेयव्यपदेश्यैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योग संबन्धमैकाग्र्यं चासादितवद्भिरलौकिकनिर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चर्व्यमाणतैकसारो न तु सिद्धस्वभावस्तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः । न तु यथा शङ्कुकादिमिरभ्यधीयत --स्थाय्येव विभावादिप्रत्याय्यमानो रस्यमानत्वाद्रस उच्यते । एवं हि लोकेऽपि किं न रसः, असतोऽपि हि यत्र रसनीयता तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या, न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्या देवमुच्यते ' स्थायी रसीभूतः' इति । औचित्वं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वावलम्बनात् । तथा हि लौकिक चित्तवृत्त्यनुमाने का रसता । तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिकस्व संवेदनविलक्षण एव । तथा हि । लौकिकेनानुमानेन संस्कृतः प्रमदादिर्न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादात्मकस हृदथत्वबलात्पूर्णी भविष्यद्रसाखादाङ्कुरीभावेनानुमानस्मृत्या दिसोपानमनारुयैव तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्रानानान्तरात्, येनाधुना स्मृतिः स्यात् । न चात्र लोकिकप्रत्यक्षादिप्रमाणव्यापारः । किं त्वलौकिकविभावादिसंयोगबलोपनतैवेयं चर्वणा । सा च प्रत्यक्षानुमानागमोपमानादिलौकिक प्रमाणजनितरत्याद्यवबोधतस्तथा योगिप्रत्यक्षजतटस्थ पर संवित्तिज्ञानात्सकलवैषयिको परागशून्यशुद्ध परयो गिगतस्वानन्दैकघनानुभवाच्च विशिष्यते । एतेषां यथायोगमर्जना दिविघ्नान्तरोदयेन ताटस्थ्यहेतुकास्फुटत्वेन विषया वेशवैवयेन च सौन्दर्यविरहात् । अत्र तु स्वात्मैकगतत्व नियमासंभवात्र विषयावेश२५ वैवश्यम्, स्वात्मानुप्रवेशात्परगतत्वनियमाभावान्न ताटस्थ्यास्फुटत्वम् । तद्विभा
i
ܙ
१५
काव्यानुशासनम् [ २६) अ. १. सु. १
तत्र लोकव्यवहारे कार्यकारणसहचरात्मकलिङ्ग दर्शनजस्थाय्यात्मपरचित्तवृत्य
1
नुमानाभ्यासपाटवादधुना तैरेवोद्यानकटाक्षधृत्यादिमिलौकिक
२०
2
1. C. N. भ्यास एष पाटवा "
2. A drops नुभावना 3. A. B. ° योग्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org