________________
२६) अ. २. सू. १]
काव्यानुशासनम्
मभिषिचन्ते । अभिनयनं हि शब्दलक्षणलिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकल्पमिति ५॥ अप्रधाने च वस्तुनि संवित्कस्य विश्राम्यति। तस्यैव प्रत्येयस्य प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्यविश्रान्तत्वात् । अतोऽप्रधानत्वं जडे विमावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेनान्यसुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव चर्वणापात्रम् । तत्र पुरुषार्थनिष्ठाः काश्चित्संविद ५ इति प्रधानम् । तद्यथा-रतिः कामे तदनुषङ्गिधर्मार्थनिष्ठा, क्रोधस्तत्प्रधानध्वर्थनिष्ठः कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः शमश्च मोक्षोपाय इति तावदेषां प्राधान्यम् । यद्यपि चषामप्यन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते । अदूरभागाभिनिविष्टदृशा त्वेकस्मिन्नपि रूपके पृथक् प्राधान्यम् । तत्र १० सर्वेऽमी सुखप्रधानाः स्वसंविचर्वणरूपस्य एकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा हि एकधनशोकसंविञ्चर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविधान्तिशरीरत्वात् । अविश्रान्तिरूपतैव च दुःखम् । तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् । किन्तूपर अकविषयवशात्केषामपि कटुकिम्ना स्पशोंऽस्ति वीरस्येव । स हि क्लेश- १५ सहिष्णुतादिप्राण एव । एवं रत्यादीनां प्राधान्यम् । हासादीनां तु सातिशय सकललोकसुलभविभावतयोपरजकत्वमिति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति शोचति बिभेति परनिन्दामाद्रियते। स्वल्पसुभाषितत्वेन च सर्वत्र विस्मयते। रत्याद्यङ्गतया तु पुमयोंपयोगित्वमपि स्यादेषां स्थायित्वं चैतावतामेव । एवमप्रधानत्वनिरासः। स्थायि- २० निरूपणया स्थायिभावान् सत्त्वमुपनेष्याम इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया व मुनिना कृतः॥६॥ तत्रानुभावानां विभावानां व्यभिचारिणां च पथक स्थायिनि नियमो नास्ति, बाष्पादेरानन्दार्तिरोगादिजत्वदर्शनात् । व्याघ्रादेश्च क्रोधभयादिहेतुत्वात्। श्रमचिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलोकनात् । सामग्री तु न व्यभिचारिणी। तथा हि । बन्धुविनाशो यत्र विभावः परिदेवि- २५ ताश्रुपातादिश्वानुभावश्चिन्तादेन्यादिश्च व्यभिचारी, सोऽवश्यं शोक एवेत्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः ॥ ७ ॥
1. A. B. तत्प्रधाने 2. A. B. हि 3. A. B. drop च
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org