________________
काव्यानुशासनम् [२६) अ. २. सू. १.
-
-
1
सामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेषु अखण्डितप्रसिद्भिजनितगाढरूढचितिप्रत्ययप्रसरकारी प्रख्यातरामादिनामधेयपरिग्रहः । अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादि नियमेन निरूप्यते । न तु प्रहसनादाविति ॥१॥ स्वैकगतानां च सुखदुःखसंविदामाखादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जिजीषया वातज्जिहासया वा तत्त्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विघ्नः । परगतत्वनियमभाजामपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोहमाध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनावश्यंभावी विघ्नः । तदपसारणे कायों नातिप्रसङ्गोऽत्र पूर्वरङ्गविधिप्रतीतिपूर्व-रङ्गानिगृहनेन नटी विदूषको वापीति लक्षितप्रस्तावनावलोकनेन च यो नटरूपताधिगमस्तत्पुरःसरप्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः, अलौकिकभाषादिभेदलास्याङ्गरणपीठमण्डपगतकक्षापरिग्रहनाटयधर्मीसहितः । तस्मिन् हि सति अस्यैवात्रैव एतयेव च सुखं दुःख वेति न भवति प्रतीतिः । स्वरूपस्य निहवाद्रूपान्तरस्य चारोपितस्य प्रतिभासविश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् सत्यतदीयरूपनिहवमात्र एव पर्यवसानात् । इत्येष सर्वो मुनिना साधारणीभावसिद्धया रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रितः ॥२॥ तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संविदं विश्रमयेदिति तत्प्रत्यूहव्यपोहनाय प्रतिपदार्थनिछैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभि: शब्दादिविषयमयैरातोद्यगानविचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जन समाश्रितम् । येनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते ॥३॥ किं च प्रतीत्युपायानामभावे कथं प्रतीतिः ॥ ४॥ अस्फुटप्रतीतिकारिशब्दलक्षणलिङ्गसंभवेऽपि न प्रतीतिर्विश्राम्यति स्फुटप्रतीतिरूपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् । यथाहुः-(39) 'सर्वा चेय प्रमितिः प्रत्यक्षपरा' .
[वा. भा. अ. १. सू. ३ ] इति । स्वसाक्षात्कृत आगमानुमानशतैरप्यनन्यथाभावस्य स्वसवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तत्प्रमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनया लोकधर्मावृत्तिप्रवृत्त्युपस्कृताः स
1. C. N. drop चिति 2. C. तदपसारेण 3. A. B धम्मी . C. N. धर्मा. cf ना. शा. (G.O.S.) p. 282 para.
२०
graph.3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org