SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ २६) अ. २. सू. १] काव्यानुशासनम् रसपरिपोषाय सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविष्ना संविचमत्कारः । तनोऽपि कम्पपुलकोल्लुकसनादिर्विकारम्धमत्कारो यथा - अज्ज विहरी चमकइ कहकहवि न मंदरेण कलिभाई । चंदकलाकंदलसच्छहाई लच्छीई अंगाई ॥ १५९ ॥ [ 1 अद्भुतभोगात्मस्पन्दावेशरूपो हि चमत्कारः । स च साक्षात्कारस्वभावों मानसाध्यवसायो वा संकल्पो वा स्मृतिर्वा तथात्वेनास्फुरन्त्यस्तु । यदाह( 38 ) रम्याणि वीक्ष्य मधुरौव निशम्य शब्दान् पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थितानि जननान्तरसौहृदानि ॥ 1 7 [ अ. शा. अं. ५. वो २] इत्यादि । भत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किक प्रसिद्धा, पूर्वमेत: स्यार्थस्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति । सर्वथा तावदेषास्ति प्रतीतिरास्वादात्मा यस्यां रतिरेव भाति । तत एव १५ विशेषान्तरानुपहितत्वात् सा रसनीया सती न लौकिकी, न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा । एषैव चोपचयावस्थास्तु, देशाद्यनियन्त्रणात् । अनुकारोऽप्यस्त्वनुगामितया करणात् । विषयसामप्यपि भवतु, विज्ञानावादावलम्बनात् । सर्वथा रसनात्मकवीत विघ्नप्रतीतिग्राह्यो भाव एव रसः । तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि लोके सकलविघ्नविनिर्मुका संवित्तिरेव चमत्कार निर्वेशरसना स्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । 2 विघ्नाश्वास्यां सप्त | संभावनाविरहरूपा प्रतिपत्तावयोग्यता १ | स्वगतपरगतत्वनियमेन देशकालविशेष (वेशः २ । निजसुखादिविवशीभावः ३ । प्रतीत्युपायवैकल्यम् ४। स्फुटत्वाभावः ५ । अप्रधानता ६ । संशययोगश्च ७ । तथा हि-संवेद्यमसंभावयमानः संवेद्ये संविदं निवेशयितुमेव न शक्नोति । का तत्र विश्रान्तिरिति प्रथमो विघ्नः । तदपसारणे हृदयसंवादो लोक1. A. B. दलिआई 2. A. B. give all the seven numbers: C. gives only three numbers. 3. C. पसा... A. B. सारेण N. ° सारणे. Jain Education International For Private & Personal Use Only ܙ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy