________________
૨૩
..
१५
२०
२५
काव्यानुशासनम् [२६) अ. २. सू. १
स्वशब्दानभिधेयत्वं हि रसादीनां दर्शितमेव । एवं काव्यार्था रसाः, तान् कुर्वते ये स्थायिष्यभिचारिणस्ते भावाः । स्थायिव्यभिचारिकलापेनैव ह्याखादयोऽलौकिकोऽथ निर्वर्त्यते । पूर्वे हि स्थाय्यादिकमवगच्छति ततः सर्वसाधारणतयाsदयति । तेन पूर्वावगमगोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकाभागिन आस्वाद्यस्य रसस्य भावको निष्पादक उच्यते । तस्मात्काव्यार्थी रस इति । तथा हि
( 37 ) भारोग्यमाप्तवान् शाम्बः स्तुत्वा देवमहर्पतिम् । स्यादर्थावगतिः पूर्वमित्यादिवचने यथा ॥ ततश्चोपात्तकालादिन्यक्कारेणोपजायते । प्रतिपतुर्मनस्येवं प्रतिपत्तिर्न संशयः ॥ यः कोऽपि भास्करं स्तौति स सर्वोऽप्यगदो भवेत् । लम्मादहमपि स्तौमि रोगनिर्मुक्तये रविम् ॥
[
] इति ।
2
एवं काव्यात्मकादपि शब्दात्सहृदयास्याधिकास्ति प्रतिपत्तिः । तस्य च 'श्रीवाभङ्गाभिरामम् ' इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिका अपहस्तिततद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां च यो मृगपोतकादिर्भाति तस्य विशेषरूपत्वाभावाद् भीत इति त्रासकस्यापारमार्थिकत्वाद् भ यमेव परं देशकालाद्यनालिङ्गितम् । तत एव भीतोऽहं भीतोऽयं शत्रुर्धयस्या मध्यस्थो वेत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतद्दानादिबुद्धधन्तरोदयनियमवत्तया विनबहुलेभ्यो विलक्षणनिर्विघ्नप्रतीतिग्राह्यं साक्षादिव हृदये निविशमानं चक्षुषोरिव विपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मा तिरस्कृतो न विशेषत उल्लिखितः । एवं परोऽपि । तत एव च न परिमितमेव साधारण्यम् । अपि तु विततम् । व्याप्तिग्रह इव धूमाग्न्योर्भयकम्पयोरेव वा । तदत्र साक्षात्कारायमाणत्वपरिपोषिका नटादिसामग्री । यस्यां वस्तुसतां कान्यार्पितानां च देशका
3
प्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धबलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति । अत एव सामाजिकानामेकपनतैव प्रतिपत्तेः सुतरां
1. A. B. पर 2 X • हान्यादि 3. A. B. माणत्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org