________________
२६) अ. २. सू. १]
काव्यानुशासनम्
९७
भावनाभान्य एषोऽपि शारादिगणो मतः । तद्भोगीकृतरूपेण व्याप्यते सिद्धिमानरः ॥
] इति ॥ तत्र पूर्वपक्षोऽय भट्टलोलटपक्षानभ्युपगमादेव नाभ्युपगत इति तद्दषणमनुत्थानोपहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न विनः । रसनेति ५ चेत्, सापि प्रतिपत्तिरेव, केवलमुपायवैलक्षण्यानामान्तरं प्रतिपद्यतां दर्शनानुमिति. श्रुत्युपमिनिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वाऽसन् वा रस इति न तृतीया गतिः स्यात् । न चाप्रतीत वस्त्वस्तिताव्यवहारयोग्यम् ।
अथो च्चते-प्रतीतिरस्य भोगीकरणम् , तच्च द्रुत्यादिस्वरूपम् । तदस्तु, १. तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावत्य एव रसात्मानः प्रतीतयो भोगीकरणस्वभावाः सत्त्वादिगुणानां चाङ्गाङ्गिवैचित्र्यमनन्तं कल्प्यमिति का त्रित्वेनेयत्ता।
. 'भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत्' इति तु यत् 'काव्येन भाव्यन्ते रसाः' इत्युच्यते, तत्र विभावादिजनितचर्वणात्मका- १५ स्वादरूपप्रत्ययगोचरतापादनमेव यदि भवेद्भावनं तदभ्युपगम्यत एव । यत्तक्तम्(35) संसर्गादिर्यथा शास्त्र एकत्वात्फलयोगतः । वाक्यार्थस्तद्वदेवात्र शृङ्गारादी रसो मतः ॥
] इति। २० तदस्माकमभिमतमेव । ।
२५
तहि, उच्यतां परिशुद्धं तत्त्वम् । उक्तमेव मुनिना नत्वपूर्व किञ्चित् । तथा बाह___ (36) काव्यार्थान् भावयन्तीति भावाः ।।
[ना. शा. अ. ७ पृ. ६९] भस्वार्थः-पदार्थवाक्यायौँ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याच्च काम्यस्यार्था रसाः । अय॑न्ते प्राधान्येनेत्याः , न त्वर्यशब्दोऽभिधेयवाची ।
1. A. B. एवार्य 2.A. B. उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org