________________
९६
काव्यानुशासनम्
[२६) अ. २. सू. १
एव हि सिन्दूरादयो गवावयव संनिवेशसदृशेन संनिवेशविशेषणावस्थिता गोसदृगिति प्रतिभासस्य विषयो नैवं विभावादिसमूहो रतिसदृशता प्रतिपत्तिप्रात्यः । तस्माद्भावानुकरणं रसा इत्यसत् ।
येन त्वभ्यधायि —– सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव सांख्यदृशा सुखदुःखस्वभावा रसः । तस्यां च सामग्र्यां दलस्थानीया विभावाः, संस्कारका अनुभावव्यभिचारिणः, स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति । तेन स्थायिभावान् रसत्वमुपनेष्याम इत्यादावुपचारमङ्गीकुर्वता प्रन्थविरोधं स्वयमेव बुध्यमानेन दूषणाविष्करणमौखर्यात्प्रामाणिकजनः परिरक्षित इति किमस्योच्यते । यत्त्वन्यत्तत्प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् ।
÷
१५
२०
२५
1
2
भट्टनायकस्त्वाह - रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते । स्वगतत्वेन हि प्रतीतो करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात् । स्वकान्तास्मृत्यसंवेदनात् । देवतादौ साधारणीकरणायोग्यत्वात् । समुद्रोहङ्घनादेरसाधारण्यात् । न च तत्त्वतो रामस्य स्मृति: अनुपलब्धत्वात् । न च शब्दानुमानादिभ्यस्तत्प्रतीतौ लोकस्य सरसता युक्ता । प्रत्यक्षादिव नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितवृत्त्यन्तरोदयव्यप्रतया का सरस - त्वकथापि स्यात् । परगतत्वेन तु प्रतीतौ ताटस्थ्यमेव भवेत् तन्न प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता । उत्पत्तावपि तुल्यमेतत् दूषणम् । शक्तिरूपत्वेन पूर्व स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । स्वगतपरगतत्वादि च पूर्ववद्विकल्यम् । तस्मात्काव्ये दोषाभावगुणालङ्कारमयत्वलक्षणेन, नाटये चतुविधाभिनयरूपेण निबिडनिजमोहसंकटतानिवारणकारिणा विभावादिसाधारणीकरणात्मनाभिघातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यबलाद् द्रुतिविस्तरविकासात्मना सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति । यत्स एषाह
( 34 ) अभिधा भावना चान्या तद्भोगिकृतिरेव च । अभिधाधामतां याते शब्दार्थालङ्कती ततः ॥
1. A. B. ●त्पाद्यते
2. C. drops from लोकस्य to ताटस्थ्य 3. A. B. ° चितचितवृत्त्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org