SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २६) अ. २. सू. १ ] काव्यानुशासनम् सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न भावशून्या नर्तके प्रति - पत्तिरित्युच्यते । अथ च तदनुकार प्रतिभास इति रिक्ता वाचोयुक्तिः । यवोक्तं- रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधक सद्भावे वा कथं न मिभ्याज्ञानम् । वास्तवेन च वृत्तेन बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धबुद्ध यभेदादित्यसत् । नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिरस्ति, ततश्च रामत्वं सामान्यरूपमित्यायातम् । यच्चोच्यते-विभावाः काव्यादनुसंधीयन्ते । तदपि न विद्मः । न हि ममेयं सीता काचिदिति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्ते इत्येतावदेवानुसंधानमुच्यते, तर्हि स्थायिनि सुतरामनुसंधानं स्यात् । तस्यैव हि मुख्यत्वेन अस्मिन्नयमिति सामाजिकानां प्रतिपत्तिः । तस्मात् सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रसा इत्यसत् । , न वापि नटस्येत्थं प्रतिपत्तिः रामं तच्चित्तवृत्ति यानुकरोमीति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् । अथ पश्चात्करणमनुकरणम्, तल्लोकेऽप्यनुकरणात्मतातिप्रसक्ता । अथ न नियतस्य कस्यचिदनुकारोऽपि तूत्तमप्रकृतेः शोकमनुकरोमीति, तहिं केनेति चिन्त्यम् । न तावच्छोकेन, तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः, तद्वैलक्षण्यादित्युक्तम् । इयत म्यात् उत्तमप्रकृतेर्ये शोकानुभावास्ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः । यस्य कस्यचिदिति चेत्, सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत्, स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः । किं च नटः शिक्षावशात् स्वविभावस्मरच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात् केवलाननुभावान् दर्शयन् काव्यमुचितकाकुप्रमृत्युपस्कारेण पठँश्चेष्टते, इत्येतावन्मात्रस्य प्रतीतिर्नत्वनुकारं वेदयते । कान्तवेषा - नुकारवद्धि न रामचेष्टितस्यानुकारः, नापि वस्तुवृत्तानुसारेण तदनुकारत्वम्, असंवेद्यमानस्य वस्तुवृत्तत्वानुपपत्तेः । न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रसा इति । 1 `यच्चोच्यते - वर्णकैर्हरितालादिभिः संयुज्यमान एव गौरित्यादि, तत्र द्यमिव्यज्यमान इत्यर्थोऽभिप्रेतः । तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते, प्रदीपाभिरिव । किं तु तत्सदृशः समूहविशेषो निर्वर्त्यते । त 1. N. प्रतीतेः Jain Education International For Private & Personal Use Only ९५ ܙ १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy