________________
काव्यानुशासनम्
[२६) अ. २. सू. १
लोकने च तदनुकरणप्रतिभासः । न च रामगतां रतिमुपलब्धपूर्विणः केचित् । एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः ।' ____ अथ नटगता चितवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते, तत्रापि किमात्मकत्वेन, सा प्रतीयत इति चिन्त्यम् । ननु प्रमदादिमिः कारणैः कटाक्षादिमिः कार्यधृत्यादिभिश्च सहचारिभिलिङ्गभूतर्या लौकिकी कार्यरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन सा नटचित्तवृत्तिः प्रतिभाति। हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणता वाचोयुक्तिः । __ननु ते विभावादयोऽनुकार्ये पारमार्थिका इह त्वनुकर्तरि न तथेति विशेषः। अस्त्वेवम् । किं तु ते विभावादयोऽतत्कारणातत्कार्यातत्सहचररूपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैर्गह्यन्ते, न वा। यदि गृह्यन्ते, तदा तैः कथं रतेरवगतिः । नन्वत एव तत्प्रतीयमानं रत्यनुकरणं मुग्धबुद्धेः, कारणान्तरप्रभवे हि कार्य सुशिक्षितेन तथा ज्ञाते वस्त्वन्तरस्यानुमान तावद्युक्तम् । असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य । यथा वृश्चिकविशेषाद्गोमयस्यैवानुमान वृश्चिकस्यैव वा तत्परं मिथ्याज्ञानम् । अय भावः-प्रसिद्धाद् रतिलक्षणात् कारणाद् रत्यनुकरणं नाम कारणान्तरं तत्प्रभवाश्चेदनुभावाः स्यु: । तथैव च विशेषविदा यदि ज्ञायेरन् , तदा रत्युनुकरणलक्षणस्य वस्त्वन्तरस्यानुमान समअसं स्यात् । न चैवं तत्कथमिव रत्यनुकरणप्रतीतिः । अविशेषविदा च तथाविधानुभावदर्शने रतिरेवानुमीयते तच्च मिथ्याज्ञानमेवेति । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि तदाभासानुमानमयुक्तम् । न हि बाष्पाद् धूमत्वेन ज्ञातादग्न्यनुकारानुमानं तदनुकारत्वेन प्रतिभासमानादपि लिङ्गाम्न तदनुकारानुमानं युक्तं धूमानुकारत्वेन हि ज्ञायमानाद् नीहाराद् नाग्न्यनुकारजपापुअप्रतीतिदृष्टा।
नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम् , क्रुद्धेन सदृशः। सादृश्य च भ्रुकुट्यादिभिगोरिव गवयेन मुखादिभिरिति नैतावतानुकारः कश्चित् । न चापि
IA. B. C. सहचररूपा 2 A. B. प्रतियोग्या
3 A. B.•drop तु .4 A. B. तथैव
5 A. B. °नुमानमतदनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org