________________
२६) अ. २. सू. १]
काव्यानुशासनम्
___इत्यनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायिभावोऽमिनीवते न तूच्यते । अवगमना शक्तियवगमनं वाचकत्वादन्या । अत एव स्थायिपदं सूत्रे मिन्नविभक्तिकमपि मुनिना नोपात्तम् । तेन रतिरनुक्रियमाणा शृङ्गार इति । अर्थक्रियापि मिथ्याज्ञानाद् दृष्टा । यथोच्यते (32) मणिप्रदीपप्रभयोमणिबुद्धयाभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ इति । न चात्र नर्तक एव सुखीति प्रतिपत्तिः, नाप्ययमेव राम इति, न चाप्ययं न सुखीति, नापि रामः स्याद्वा न वायमिति, न चापि तत्सदृश इति । किं तु सम्यमिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असावयमिति प्रतीतिरस्तीति । यदाह- (33) प्रतिभाति न संदेहो न तत्त्वं न विपर्ययः ।
धीरसावयमित्यस्ति नासावेवायमित्यपि ॥ विरुद्धबुद्धथसंभेदादविवेचितविप्लवः । युक्त्या पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥ इति ॥
] १५ तदिदमप्यन्तस्तत्त्वशून्यं न विमर्दक्षममिति भट्टतोतः । तथा हि-अनुकरणरूपो रस इति यदुच्यते तत् किं सामाजिकप्रतीत्यभिप्रायेण, उत नटाभिप्रायेण, किं वा वस्तुवृत्तविवेचकव्याख्यातृबुद्धिसमवलम्बनेन ।
यथाहुः-व्याख्यातरः खल्ववेवं विवेचयन्तीति ।
अथ भरतमुनिवचनानुसारेण तत्राद्यः पक्षोऽसंगतः । किञ्चिद्रि प्रमाणे- २० नोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा-एवमसौ सुरां पिवतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्ध यदत्यनुकरणतया भातीति चिन्त्यम् ।
तच्छरीरं तनिष्ठ प्रतिशीर्षकादि रोमाञ्चगद्गदिकादिभुजाक्षेपचलनप्रभृति अक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपाया अनुकारत्वेन कस्यचित् प्रतिभाति । १५ जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्नाधिकरणत्वेन ततोऽतिवैलक्षण्यात् । मुख्याव
1. C. स इत्यनु 2. C. दिकादिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org