SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [२६) १. २. सू. १ परपुरुषदर्शनप्रभवमुखप्रसेककलनाकल्पया रसनीयस्वरूपतयान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादि वो नटेऽत्यन्ताविद्यमानोऽपि सामाजिकजनतास्वाथमानो मुख्यरामादिगतस्थाय्यनुकरणरूपोऽनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः । सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥ १५४ ॥ दैवादहमद्य तया चपलायतनेत्रया वियुक्तच । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ १५५ ॥ इत्यादौ हि विभावाः काव्यबलादनुसंधेयाः, अनुभावाः शिक्षातः, व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् । स्थायी तु काव्यबलादपि नानुसंधेयः । ' रतिः शोकः' इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यमिधानत्वेन, न तु वाचिकामिनयरूपतयावगमयन्ति । न हि वागेव वाचिकमपि तु तया निर्वृत्तम् , अरिवाङ्गिकम् । तेन विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि ।। वाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥ १५६ ॥ इति तथा शोकेन कृतस्तम्भस्तथा स्थितो येन वर्धिताक्रन्दैः । हृदयस्फुटनभयार्ते रोदितुमभ्यर्थ्यते सचिवैः ॥ १५७ ॥ २५: इत्येवमादौ न शोकोऽभिनेयोऽपि त्वमिधेयः । ' भाति पतितो लिखन्त्यास्तस्या बाप्पाम्बुशीकरकणोधः । स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि ॥ १५८ ॥ [ रत्ना. अं. २ श्लो. ११ ] -- - 1. A. B. drop च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy