SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ २६) म. २. सू. १] काव्यानुशासनम् सितमुपहसितं चापहसितमतिहसितम्' इति षोढात्वं हास्यरसस्य कथं भवेत् । अन्यच्च, उत्तरोत्तरप्रकर्षतारतम्यवशेन (30) प्रथमे त्वमिलापः स्याद् द्वितीये त्वर्थचिन्तनम् । . अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते । उन्मादः सप्तमे शेयो भवेद्वयाधिरथाष्टमे ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् ॥ [ना. शा. अ. २२. श्लो. १५४-१५६ ]+ इति दशावस्थः कामोऽभिहितः । तत्रापि प्रत्यवस्थमुत्तरोत्तरप्रकर्षतारतम्यसंभवात् कामावस्थासु दशस्वसंख्याताः शृङ्गाररसरतिभावादयः प्रसजेयुः । १० अपरं च प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्यत्रापि विपर्ययो दृश्यते । यतः-इष्टजनवियोगाद्विभावादुत्पनो महान् शोकः क्रमेणोपशाम्यति, न तु दाढर्यमुपैति । क्रोधोत्साहरतीनां च निजनिजकारणबलादुद्भतानामपि कालवशादमर्षस्थैर्यसेवाविपर्ययेऽपचयोऽवलोक्यते । तस्मान्न भावपूर्वकत्वं रसस्य । अपि तु तद्विपर्यय एव । उक्तं हि मुनिना (31) — रसपूर्वकत्वं भावानाम् , भावपूर्वकत्वं रसस्य, विषयविशेषापेक्षया प्रयोगेऽत्यनुकतरि रसानास्वादयतामनुकार्ये भावप्रतीतिरुत्पद्यते' [ इति । प्रथमस्य पक्षस्योत्थानम् । लोके तु भावदर्शनात्तत्स्वरूपरसनिष्पत्तिरिति । तस्मादन्यथा व्याख्यायते । हेतुभिर्विभावाख्यैः कार्यैश्वानुभावात्मभिः सहचारिरूपैश्च व्यमिचारिमिः प्रयत्नार्जिततया कृत्रिमैरपि तथानमिमन्यमानैः संयोगाद्गम्यगमकभाषरूपादनुमीयमानोऽपि वस्तुसौन्दर्यबलात् कषायफलचर्वण 1. A. B. तु . 2. B. drops gega tocf. Vātsyāyana K. S. see 5. 5 p. 248 C. S. S. 3 A. B. कररण. the reading may be करण 4. B. विषये विशेषा. c. विषयविशेषोऽपेक्षया ___5. A. B. सौहार्दबलात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy