________________
काव्यानुशासनम्
[२६) अ. २. सू. १
1
3
मुख्यया वृत्त्यानुकरणीये रामे तद्रूपतानुसंधानादनुकर्तरि प्रतीयमानः स्थायी रस इति । - एतनैति शङ्कुकः । तथा हि - विभावाद्ययोगे स्थायिनोऽवगमो नोपपद्यते, अवगमकस्याविद्यमानत्वात् । न हि धूमं विना धराधरान्तःस्थो वहिरवगम्यते । अपि च यथा स्वयमुत्पादिता विभावैः सूचिताश्चानुभावैः पोषमुपनीताश्च व्यभिचारिभिः संयोगाद्रसीभवन्ति स्थायिनस्तदा स्थायिनामेव भावानामुद्देशो लक्षणं चादावभिधातुं युक्तं सत् कस्मान्न कृतम् । आदौ हि रसानामुद्देशलक्षणे अभिहिते । कस्माच्च रसानां विभावाननुभावाश्चोक्त्वा तानेव स्थायिनां पुनराह । तथा हि रसान् प्रतिपदं लक्षयन् मुनिर्वक्ष्यति
(28) 'अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनयविनयबलपराक्रमशक्तिप्रतापप्रभावादिनिर्विभावैरुत्पद्यते ' (ना. शा. अ. ६. पृ. ६७) इति । पुनश्च स्थायिभावानुवादे
(29) ' उत्साहो नामोत्तमप्रकृतिः । स चाविषादशक्तिशौर्यादिभिविभावैरुत्पद्यते' ( ना. शा. अ. ६ पृ. ७२) इति । एवमभिन्नार्था एवैते । विभावा रसलक्षणे विस्तरत उक्ताः, भावानुवादे तु लेशतः प्रदर्शिताः ।
न चोत्पत्तौ पदार्थानां कारणमभिधाय पुष्यतां पुनस्तदुत्पत्तिकारणमभिधातव्यम् , वैयर्थ्यापत्तेः । किं च-अनुपचितावस्थः स्थायी भावः, उपचितावस्थो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दमाध्यस्थ्यादिविशेषापेक्षयानन्त्यापत्तिः । एवं रसस्यापि तीव्रतीव्रतरतीव्रतमादिभिरसंख्यत्वं प्रसज्यते। अथोपचयकाष्ठां प्राप्त एव रस उच्यते, तर्हि स्मितमवहसितं विह
1. C. मुख्यवृत्या । 2. A. B. शकुंतः
3. A. B. धराधरधरावस्थो N. धराधरावस्थो c. धरान्तःस्थो The correct reading should be धराधरान्तःस्थो. ___4. B. नीतानाश्च०
5. B. drops स्थायिनः तदा 6. B. drops aghtěrest 7. C. तथोत्पत्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org