SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (२६) अ. २. सू. १ ] काव्यानुशासनम् दरो निमीलितनयनैः कविसहृदयै रस्यमानः स्वसंवेदनसिद्धो रसः । रस इति । तथा च भरतमुनिः - ( 26 ) ' विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः [ ना शा. अ. ६ पृ. ३२ ] इति । , 1 2 तत्र भट्टलोलटस्तावदेवं व्याचचक्षे - विभावादिभिः संयोगोऽर्थात्स्थायिनः, ततो रसनिष्पत्तिः । तत्र विभावचित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम् । अनुभावाच न रसजन्या अत्र विवक्षिताः, तेषां रसकारणत्वेन गणनानर्हत्वात्, अपि तु भावानामेव येऽनुभावाः । व्यभिचारिणश्च चित्तवृत्त्यात्मकत्वात्, यद्यपि न सहभाविनः स्थायिना, तथापि वासनात्मतेह तस्य विवक्षिता । तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः । स्थायी त्वनुपचितः । स चोभयोरपि मुख्यया वृत्त्या रामादावनुकार्येऽनुकर्तरि च नटे रामादिरूपतानुसंधानबलादिति । १० तथा चाह दण्डी and ( 27 ) रतिः शृङ्गारतां याता रूपबाहुल्ययोगतः । आरुह्य च परां कोटिं कोपो रौद्रत्वमागतः ॥ [ का. द. परि. २] + अयं भावः - विभावैर्जनितो ऽनुभावैः प्रतीतिपदं नीतो व्यभिचारिभिरुपचितो 1. P. रस्यमनो, drops स्वसंवेदनसिद्ध. L. स्वसंवेदनरसो सिद्धः 2. C. drops वृत्ते This verse is not found in Kavyadarsa in this form. But we can gather it from the following in Kavyadarsa arichheda II. प्राक् प्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता । रूपबाहुल्ययोगेन तदिदं रसवद्वचः ॥ २८१ ॥ इत्याय परां कोटिं क्रोधो रौद्रात्मतां गतः ॥ २८३ ॥ The commentary of Abhinavagupta on N. S. which is closely followed in this hart of Viveka ( G. O. S. ) reads जुता and ° योगेन and अधिरुत्य and ° रौद्रात्मतां गतः Jain Education International ८९ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy