SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ [२६) अ. २. सू. १ काव्यानुशासनम् द्वितीयोऽध्यायः रसलक्षणमाह २६) विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः॥१॥ वागाधभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतयो ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोदीपनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेष सामाजिकजनोऽनुभवन्ननुभाव्यते-साक्षात्कार्यते यैस्तैरनुभावैः कटाक्षभुजाक्षेपादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिधृतिस्मृतिप्रभृतिभिः, स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारिशब्दव्यपदेश्यैः, ममैवैते परस्यैवैते न ममैते न परस्यैते-इति संबन्धिविशेषस्वीकारपरिहारनियमानवसायासाधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियतप्रमातृगत्वेन स्थितोऽपि साधारणोपायबलात्सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्यमाणतैकप्राणो विभावादिभावनावधिरलौकिकचमत्कारकारितया परब्रह्मास्वादसो विभावैरिति । यदाह मुनिः(24) बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः । अनेन यस्मात्तेनाय विभाव इति संज्ञितः ॥ [ना. शा. अ. ७ श्लो, ४ ] अनुभावैरिति । यदाह(25) वागङ्गसत्त्वाभिनयैर्यस्मादथोंऽनुभाव्यते वागडोपानसंयुक्तस्त्वनुभाव इति स्मृतः ॥ [ना. शा. अ. ५ श्लो, ५]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy