SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २५] काव्यानुशासनम् अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते । तदिति प्रकृत्यंशश्चाऽत्र नतभित्तीत्येतत्प्रकृत्यंशसहायः समस्तामङ्गलभूतां मूषिकाद्याकीर्णतां ध्वनति । एवं सा धेनुरित्यादावपि योज्यम् । तथा-- रइकेलिहियनियंसणकरकिसलयरुद्धनयणजुयलस्स । रुदस्स तइयनयणं पव्वइपरिचुंबियं जयइ ।। ९२ ।। [स. श. ४५५ गा. स. प. ५५ ] अत्र जयतीति न तु शोभत इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते । भावादीनां पदप्रकाशकत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते। १० वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षण एवोदाहरिष्यते । प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव । वर्णरचनायास्तु साक्षान्माधुर्यादिगुणव्यञ्जकत्वमेव । तद् द्वारेण तु रसे-उपयोग इति गुणप्रकरण एव वक्ष्येते इतीह नोक्ते । इति । आचार्यश्रीहेमचन्द्रविरचितायाम्-अलङ्कारचूडामणिसंज्ञस्वोपन- १५ काव्यानुशासनवृत्तौ प्रथमोऽध्यायः ॥ - 1. P. प्रतीत्यैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy