________________
काव्यानुशासनम् [अ. १. सू. २५ अत्र प्र इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति ।
अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः । सोपि रसव्यक्त्यर्थः । यथा
अहो बतासि स्पृहणीयवीर्यः ॥ ८८ ॥
अत्राहो बतेत्यनेन श्लाघातिशयो ध्वन्यते ।
मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरैद्य सुबोधमीशंत्वां बोद्भुमिच्छन्त्यबुधाः स्वतः ॥८९॥
[ अत्र सम्यग्भूतमुपांशु कृत्वा आसमंताचरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते ।
'रमणीयः क्षत्रियकुमार आसीत् ' । ९० । इति
अत्र शङ्करधनुर्भङ्गश्रवणात्प्रकुपितस्य भार्गवस्योक्त्या 'आसीदित्यतीतकालनिर्देशाद् दाशरथे: कथाशेषत्वं व्यज्यते ।
यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथातद्नुहं नतभित्ति मन्दिरमिदं लब्ध्वावकाशं दिवः
सा धेनुर्जरती नदन्ति करिणामेता धनाभा घटाः । स क्षुद्रो मुशलध्वनिः कलमिदं संगीतकं योषिता
माश्चर्य दिवसैर्द्विजोऽयमियती भूमि परां प्रापितः ॥९॥
२०
1. I. यदाह 2. P. आचरता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org