SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ म. १. सू. २५) काव्यानुशासनम् अत्र न लिखतीत्यपि तु प्रसादपर्यन्तमास्त इति, तथा आस्त इति नत्वासित इति, भूमिमिति न तु भूमाविति, न हि बुद्धिपूर्वकं रूपकं किंचिल्लिखतीति स्यादितित्यादिविभक्तीनां व्यञ्जकत्वम् । अन्नत्थ वच्च बालय हायंति कीस में पुलोएसि । एयं भो जायाभीरुयाणत्तहं चिय न होइ ।। ८५ ॥ अत्र जायातो ये भीरवस्तेषामेतत्स्नानस्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेर्ध्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । जायाभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम् । ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽव- .. ज्ञातिशयद्योतकः । अयमेकपदे तया वियोगः प्रियया चोपनतः सुदु सहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥ ८६ ॥ . [वि. अं ४. श्लो. ३.] अत्र चकारौ निपातावेवमाहतुः, गण्डस्योपरि स्फोटवद्वियोगश्च १५ वर्षासमयश्च समुपनतमेतद् द्वयमलं प्राणहरणायेति। अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् । प्रस्निग्धाः कचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । ८७ । [ शा. अं. १. श्लो. १३ ] 1. I. अण्णत्थ 2. I. विप्रयोगः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy