________________
कारिका ५६.]
क्षणभङ्गभङ्गः ।
९१९
वेत्; कः संबन्धः १ । न तावत् तादात्म्यम्, तत्र पूर्वमेवोक्तं दूषणम् । अथ तदुत्पतिः । तदपि नास्ति यतः किम् अभावेन घटो जन्यते किं वा घटेन अभाव इति १ । तत्र यद्यभावेन घटो जन्यते तदा तत्कारणवैफल्यं स्यात् । सर्वत्र च घटस्य सत्त्वं भवेदिति । अथ घटेनाभावो जन्यते तदा कथमद्देतुकत्वम् ? । द्वितीयश्च घटक्षणोऽभावेन व्यवहितोत्पत्तिः स्यात् । अथ द्वितीयैघटक्षण एव प्रथमस्याभावो नान्योऽभावोऽन्तराले 8 कश्चिदिति । ननु तस्य क्षणिकत्वात् तद्विनाशे प्रथमघटस्योत्पत्तिः स्यात् । एवं कपालविनाशेपि ।
२५. अपि च यदि वस्त्वन्तरमेवाभावः तदा यदुक्तं- 'पर्युदास एवैको नमर्थः स्यात् सोऽपि वा न भवेत् । यदि हि किंचित् कुतश्चिद् व्यावर्तेत तदा तद्व्यतिरेकि संस्पृश्येत तत्पर्युदासेन अन्यथा घटो न भवतीत्युक्ते पटो भवति इति पटस्य विधिरेवोक्तः ॥ स्यात् न घटस्य निवृत्तिरिति' "विरुध्येत । तस्मात् सुदूरमपि गत्वा वस्तूभयात्मकमभ्युपगन्तव्यम् । स्वरूपेण सत् पररूपेणासदिति । तेन भाववत् तदभावोऽपि हेतुमानिति ।
२६. अपि चैवमेकान्तवादिनो जन्माप्यहेतुकं स्यात् । तथाहि - कारणेन कार्यस्य किं जन्म भिन्नं क्रियते ' किं वाऽभिन्नं क्रियते ? | यदि भिन्नं क्रियते तदा कार्यस्य न किंचित् कृतं स्यात् । तत्संबन्धित्वं च " संबन्धनिरासात् निरस्तम् । अथाभिनं क्रियते तदा तदेव ॥ क्रियते न जन्म । तच किं विद्यमानं क्रियते किं वा अविद्यमानम् १ | यदि विद्यमानं तदा किं क्रियते १ । अथाविद्यमानं तदा शशविषाणमपि क्रियेत । अथाविद्यमानमेव क्रियते न तु अविद्यमानं क्रियत एव । तेन यस्य कारणमस्ति तत् क्रियते यस्य नास्ति तत्र क्रियते । ननु अविद्यमानत्वाविशेषेऽपि मृत्पिण्डो घटस्यैव कारणं न शशविषाणस्येति किं कृतो नियमः ? । अथ यस्योत्पत्तिर्दृश्यते तस्य कारणं नेतरस्य । ननु अविद्यमानत्वाविशेषेऽपि एकस्योत्पत्ति - 2 र्नान्यस्येति कुतः ? । वस्तुस्वभावैरुत्तरं वाच्यमिति चेत्; एवं तर्हि हेतुमद्विनाशवाद्यप्येतद्वक्तुं शक्नोति । कपालोत्पत्तौ घटस्यैवाभावः क्रियते नान्यस्येति वस्तुस्वभावैरुत्तरं वाच्यमिति । तद्युक्तिवादिना पादप्रसारणं न कर्तव्यम् किन्तु युक्तिरनुसरणीया ।
६२७. तत्रैकान्तषादे उत्पादव्ययौ "नियुक्तिकाविति । अनेकान्तवाद एवं युक्तिमारसह इति" तदेव वस्तु केनचिद्रूपेण विनश्यति केनचिदुत्पद्यते " नैकान्तेनासदुत्पद्यते नाप्येकान्तेन 24 विनश्यति इति युक्तं । तदेवमुत्पादव्ययधौव्ययुक्तं वस्त्वनभिदधानानि आगमान्तराणि मिथ्यावादीनि इति । तस्मात् सूक्तम् - जैनादन्यच्छासनमनृतं भवतीति ।
२८. ननु भवतु विधिनियमभङ्गवृत्तिव्यैतिरिक्तत्वादन्यच्छाशन मनृतमनम्ब (मम्ब)
१. नास्तीति यतः क० ।
६.
२. घटेनेति अ० । ३. तत्करण मु० क० । ४. द्वितीये घट° अ० । ५. नाद्योs सु० क० 'तिरेके सं° मु० क० । ७. विधिरुच्येत सु० क० । ८. मिनं क्रियते यदि क० । ९. वाऽभिनं यदि सु० । १०. तत्संबंधिनिरासात् अ० । तत्संबन्धनिरासात् सु० क० । ११. संबंधित्वनिरा' ब० । १२. मानं क्रियते यदि ६० मु० । १३. क्रियते तदा मु० क० । १४. तथा मु० क० । १५. न तु अ० । १६. विशे मु० क० । १७. स्यापि किं अ० ब० । १८. स्यैव कि० मु० । १९. यौ न युक्ति मु० क० । २०. इत्यादि म० ब० । २१. बवे नाप्येका अ० । २२. व्यक्तिरि° अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org