________________
११८
न्यापावतारसूत्रवार्तिकवृत्तौ [४. आगमपरि० धीयते । सर्वोपास्मारहित निरूपत्वात् न कस्यचिद्रूपस्य करणमिति कथं तत्र हेतुव्यापारः फलवानिति । वलात् अभावं करोति'-भावं न करोतीति क्रियाप्रतिषेधमात्रं स्यात् । तस्मा. द्विनाशस्य अहेतुकत्वाद् उदयानन्तरं ध्वंसः । कुतोऽनुगतस्य रूपस्य संभवो येन त्रैलप्यं
वस्तुनः साविति । .६२०. अपि च, एकरूपत्वे वस्तुनः प्रथमे क्षणे यपं तदेव यदि द्वितीयादिष्वपि तदोत्पतिरूपत्वात् प्रथमक्षणलेव सर्वेषामुत्पत्तिरूपता स्यादिति प्रतिक्षणमुत्पादे न कस्यचित् स्थितिरिति । अथ प्रथमे'क्षणे उत्पत्तिः द्वितीयादिषु तु स्थितिरिति । तदा उत्पत्तिस्थित्योत्पत्तिस्थितिमद्भ्यां न भेद इति तयोरपि भेद इत्याविना क्षणिकस्य वस्तुनः सिद्धेः कुतो द्रव्यस्य संभव इति । ॥ ६२१. अत्र वदन्ति । यद्यहेतुकत्वं नाशस्य तदा नित्यं सत्त्वमसत्त्वं वा स्यात् । तत्र क्षणमा- यदि घटाभावस्य सत्त्वं तदा अहेतोदेशकालनियमाभावाजगति घटस्य नामापि भाः। न स्यात् । अथाऽसस्वं तदा घटस्य नित्यत्वं व्यापित्वं वा प्रसज्येत । अथ न घटात् तदभावस्य भेदः । एवं तर्हि कथमभावस्याहेतुकत्वम् ? । अन्यथा घटस्याप्यहेतुकता स्यात् । अथ घटहेतोरन्यो न मुंद्ररादिहेतुरिसहेतुकतोच्यते । यद्येवं प्रथमेऽपि क्षणे न ॥ घटस्य सत्त्वं स्यात्, विरोधिनः संनिधानात् ।
६२२. ननूक्तम् - न स्वरूपादन्यो[s]भाव इति कः केन विरुध्यते ? । यद्येवं तदा घटस नित्यत्वं व्यापित्वं च स्यात् । तथाहि-यस्य यत्र स्वरूपं तस्य तत्र सत्त्वम् । यथा प्रथमे क्षणे घटस्य । अस्ति च सर्वत्र देशे काले घटस्य स्वरूपभूतोऽभाव इति । अथ
खहेतोरेकक्षणस्थायी घट उत्पयते तेन तदात्मको विनाशः कथ्यते । न पुनर्षिनाशो नाम "कमि विग्रहवानिति । तेन द्वितीये क्षणे से एष न भवति । न पुनस्तस्य किंचिद् भवति । अथ द्वितीये क्षणे घटस्य किं सस्वं किं वाऽसत्त्वम् १ । यदि सत्त्वं कथं क्षणिकत्वम् ? अथासस्वम् तदा तदसत्त्वम् यद्यहेतुकं तदा प्रथमेऽपि क्षणे किं न भवति ? । अथ तदसत्त्वं न किंचिद् येन प्रथमेऽपि क्षणे स्यात् । यदि तन्न किंचिद् किं न घटो भवति ? ।
६२३. अथ द्वितीयादिक्षणेषु तुच्छरूपोऽस्याऽभावो भवति तेन न सत्त्वमिति । प्रथमे क्षणे तुच्छरूपाभावाभावात् सत्त्वमिति । ननु तुच्छरूपोऽभावः किं घटादभिन्नः किं वा मिम इति ? । यद्यभिन्नः तदा पूर्वः प्रसंग:- प्रथमेऽपि क्षणे सत्त्वं न स्यात्, सर्वदेशकालेषु वा सत्त्वं स्यात् इति । अथ भिन्नः स किं निर्हेतुकः किं वा हेतुमानिति । यद्यहेतुकः तदा प्रथमेऽपि क्षणे घटस सत्त्वं न स्यात् अहेतुकत्वात् तस्य तत्रापि भावात् । अथ हेतुमासदा कथमहेतुकोऽभावः इति । .६२४. अपि च तुच्छरूपाभावोत्पत्तौ द्वितीयादि क्षणेषु यदि घटो न भवति त्रैलोक्यमपि किम न भवति । तत्संबन्धिनोऽभावस्योत्पत्तेः स एव न भवति न तु" त्रैलोक्यमिति
१. करोतीति न करो ब०। २. सद्भावो क०। ३. प्रथमक्षणे मु०। ४. तदोत्पत्तिस्थितिमन्यां क. मु०। ५. मेदे इत्या अ०१०। ६. तदा हेतो मु०। ७. तदाभा क०। ८. मेदः तर्हि मु०। ९. घटस्थाप्य मु०। १०. न मुद्रादेर्हेतुकतोच्यते अ०। ११. विरोधिनि क०। १२. देशकाले मु० क०। १३. क्षणे एव मु०क०। १४. तथा अ०ब०। १५. मपि न किन भ मु० क० । १६. सत्तौ स अ०। १७. न त्रैलो ब०मु०क०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org