SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कारिका ५६.] क्षणभङ्गचिन्ता। ११७ अदृष्टकल्पनया ? । दूरत्वान्न इति चेत्, कथं चन्द्रादयो विज्ञानोत्पादकाः । वस्मानास्ति' नियमः-सन्निहितेनैव कारणेन कार्यमुत्पादनीयम्, न दूरस्थेनेति । तेन सर्वत्रोपलभ्यमानगुणत्वेनात्मनः सर्वगतत्वम् । इत्येकान्ताभेदवादिनो मिथ्यावादिन इति । ६१६. तथा, एकान्तभेदवादिनोऽभिदधति-विनाशस्याहेतुत्वाद् उदयानन्तरं ध्वंसात् क्षणभङ्गवा- कुतो द्रव्यस्य संभव इति । तथाहि-ये यद्भावं प्रत्यनेपेक्षाः ते तद्भावनियताः।। दिनः पूर्वप यथा अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षाश्च विनाशं प्रति भावा इति । तथाहि विनाशहेतुना किं स्वरूपं क्रियते, किं वाऽभावः क्रियते ? । न तावत् स्वरूपम् । तस्य खहेतोरेवोत्पन्नत्वात् । किं च, तत् स्वरूपं नित्यम्, अथानित्यम् ? । यदि नित्यं तेदा तस्याविनाश्यत्वात् अकिंचित्करो विनाशहेतुः । अथानित्यं तदा तस्य स्वत एव नश्वरत्वात् किं विनाशहेतुना । अथ कालान्तरस्थायिनो' विनाशहेतुना विनाशः क्रियते । न, कालान्तर-" स्थायित्वे नित्यतैव स्यात् । येन हि स्वभावेन भावः संवत्सर स्थितः स चेत् संवत्सरान्तेऽपि खभावः, पुनरन्यत् संवत्सरान्तरमासितव्यम् । तत्राप्येवमिति कालान्तरस्थायित्वाभ्युपगमे नित्यतैवापतति । तन्न पक्षान्तरसंभव इति । तत्र च विनाशहेतोरकिंचित्करत्वमिति । तन्न स्वरूपकरणाद्विनाशहेतुरिति । ६१७. अथाभावं करोति । तदपि नास्ति । यस्मादभावः किं पर्युदासरूपः किं वा । प्रसज्यरूपः ? । तत्र न तावत् पर्युदासरूपः, तस्ये वस्त्वन्तरलक्षणत्वात् । तत्करणे न विनाश्यस्य किंचित् कृतं स्यात् । तथाहि - मुद्राद् यदि कपालानामुत्पादो घटस्य किमायातम् ? । तध्यंशेन(तद्धसेन) तेषामुत्पादादिति चेत्, तदुत्पादेऽन्यस्य ध्वंसः किं न भवति । तस्यैव निर्वृत्तरिति चेत् ; न, निवृत्तेर्वस्त्वन्तररूपत्वात् तदुत्पादे सर्वस्य स्यात् न वा कस्यचिदपि" विशेषाभावादिति । असंबद्धं च स्यात् । तथाहि - कपालोत्पत्तौ कपालो." त्पत्तिरिति । ६१८. अपि च ध्वंसोऽपि किं घटस्वरूपः ? किं वा अर्थान्तरमिति ? किं वा तुच्छरूप इति ? । तदेवावर्तत इति अनवस्था । तन्नार्थान्तररूपाभावकरणे भावस्य किंचित्स्यात् । किन्तु स्वरसत एव निवर्तमानो घटक्षणो मुद्गरादिसहकारिकारणं प्राप्य कपालान्युत्पादयति । तदुत्पत्तौ च विजातीयसन्तानोत्पादे 'नाशितो घटः' इति जनस्याभिमान इति । १९. अथ प्रसज्यरूपमभावं करोति । तदपि नास्ति । निरूपस्य कर्तुमशक्यत्वात् । करणे वा भावरूपतैव स्यात् । यतो भवतीति भावोऽभिधीयते । नान्यद्भावस्यापि लक्षणम् । अथ भावो भावरूपतया भवति अभावोऽभावरूपतयेति । विचित्ररूपा हि पदार्थी भवन्ति । न हि नीलं पीतरूपतया भवति । तदप्यसत् । यतः केनचिद्रूपेणोन्मजनं हि भवनमभि १. अदृष्टपरिकक०। २. तत्र मु०क०। ३. कान्तभेद मु०क०। ४. °हेतुत्वात् अ० ब०। ५. प्रत्यपेक्षाः अ० मु०क०। ६. अनपेक्षश्च मु० क०। ७. भाव इति मु०क०। ८. तस्य हेतोरुत्प मु०क०। ९. नित्यं तस्या मु०क०। १०. विनश्यक०। ११. स्थायिना विक०। १२. येन खमु०क०। १३. संवत्सरः क०। १४. अथ भावं क० । अथ भावं न करोति मु०।१५. तस्यावस्थान्तरल°क०। १६. कृतं तथाहि मु०। १७. तदंशेन तेषा अ० तच्चांशेन तेषामु०। १८. निवृत्तिरिति मु०क०। १९. चिदभावादिति मु०क०। २०. असंबन्धं स्यात् मु०क०। २१. भिधान इति मु०क०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy