________________
कारिका ५६.]
सत्कार्यवादनिषेधः ।
११५
१०. तत्संबंयोर्धर्मयोरुत्पादविनाशात् तस्यासौ अभ्युपगम्यते नान्यस्येति चेत्; न, सदसतोः संबन्धाभावेन तत्संबन्धायोगात् । तथाहि - संबन्धो भवन् सतो वा भवेदसतो बेति ? । न तावत् सतः, समधिगताशेषस्वभावस्यान्यानपेक्षितया कचिदपि पारतथ्याऽसंभवात् । नाध्यसतः । सर्वोपाख्याविरहतया तस्य कचिदप्याश्रितत्वानुपपत्तेः । न हि शशविषाणादिः कचिदप्याभित उपलब्धः ।
११. न च व्यतिरिक्तधर्मान्तरोत्पादविनाशे सति परिणामो भवद्भिर्व्यवस्थाप्यते । किं तर्हि ? यत्रात्मभूत स्वभावानुवृत्तिरवस्थाभेदश्च तत्रैव तदूव्यवस्था । न चात्यन्तभेदे धर्माणामात्मभूतो धर्मोऽनुवर्तत इति । तन्न भेदे परिणामः कश्चित् । एकान्तभेदे धर्मो वा स्यात् धर्मी वा । न तत्रापि कश्चित् परिणाम इति ।
I
९१२. ननूक्तम् - न सलिलात् कल्लोलानां भेदो नाप्यहे उत्फणाद्यवस्थानम्, अथ च भिन्ना 10: इव प्रतीयन्ते । तद्वद्धर्माणामाविर्भावतिरोभावमात्रम् परिणामो नापूर्वविधिरिति । अथ कोऽयमाविर्भावः १ । किं स्वभावातिशयोत्पत्तिरुत तद्विषयं विज्ञानम्, आहोखिद् उपलम्भावरणविगम इति ? । तत्र न तावदाद्यः पक्षः । यतः स्वभावातिशयो यद्यनुत्पद्यते तदा कथं सत्कार्यवादः ? । अथ सन् तदा नाविर्भावः । अथ तस्याप्यवस्था पूर्वमसती पश्चाद्भवति । ननु माप्यवस्था यदि सती तदा कथं भवति ? । अथ न सती तदा कथं नापूर्वविधिरिति ? | s तत्राप्यवस्थाम्तराभ्युपगमेऽनवस्था । तन्न स्वभावातिशयोत्पत्तिराविर्भाव इति । नापि तद्विषयं विज्ञानम् । नित्यत्वोपगमात् । तथाहि - भवतां सिद्धान्तः 'संविदोसर्गप्रलयादेकैव बुद्धि:' इति । न च न बुद्धिस्वभाषा तद्विषया वित्तिः, किन्तु मनःस्वभावेति वक्तव्यम् । यतो बुद्धिरुपलब्धिरध्यवसायो मनः संवित्तिर्ज्ञानमित्यनर्थान्तरत्वात् । तन्न तद्विषयं विज्ञानमप्याविर्माषः । नाप्युपलम्भावरणविगमलक्षणः । न हि अनाधेयनपनेयस्वरूपस्य नित्यस्मावरणं 20 किंचित् । भवतु वा, तद्धि सद्वा स्यात् असद्वा ? । यद्यसत् कथं तस्य विगम: ?, स्वत एव तस्य विगमरूपत्वात् । विगमरूपस्याप्यावारकत्वे न कदाचित् उपलम्भोपलम्भः स्यात् । अथ सत् । तदा कथं तस्य विगमः १ । न हि भवन्मतेन किंचिद्विनश्यति । तिरोभावो विनाश इति चेत्; कोऽयं तिरोभावः ? किं स्वरूपविनाशः, पर्यायविनाशो वा, किं वाssवरणयोगः, विज्ञानानुत्पादकत्वं वेति ? । तत्र न तावत् स्वरूप-पर्यायविनाशोऽनभ्युपगमात् । नाप्यावरण- 20 योगो अविचलितरूपस्यवैरणायोगात् । अकिंचित्कुर्वाणस्यावरणत्वासंभवात् । अन्यथा जगतोऽपि स्यात् । करणे वा नित्यताहानेः । विज्ञानानुत्पादकत्वमप्ययुक्तम् । येन हि " स्वरूपेण ज्ञानमकार्षीत् तस्य विद्यमानत्वात् सहकारिणोऽकिंचित्करत्वेन निरस्तत्वात् । तदेवमुत्पादव्ययावपि प्रमाणोपपन्नाविति तदनभ्युपगच्छतो द्रव्यास्तिकनयवादिनो मिध्यात्वमिति ।
१. संबन्धयो° अ० मु० क० । २. रुत्पाय वि° अ० । ३. 'संबन्धिलायो' मु० क० । ४. 'गतशेष क० । ५. मेदस्य तत्रैव अ० । ६. नचात्यन्त्य मेदे अ० । न चासन्तमेदे क० । ७. इति न भेदे अ० ब० । ८. एकान्तमेदे मु० क० । ९. धर्माः वा स्युः धर्मी मु० क० । १०. 'वस्था अथ सु० क० । १९. यद्यदुत्प' मु० । १२. संविदसर्ग° अ० । १३. स्वभावातिविषया अ० । स्वभावो तद्विषया संवितिः मु० क० । १४. अनाधिया अ० । १५. स्यावारक क० । १६. चित् उपलम्भः स्यात् मु० ब० । १७. रूपस्यायोगात् अ० ब० मु० । १८. 'लस्य यु० मु० क० । १९. येन खरू' ब० ।
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org