________________
११४
न्यायावतारसूत्रवार्तिकवृत्तौ [४. आगमपरि० "भूलप्रकृतिरविकृतिमहदायाः प्रकृतिविकतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिने विकृतिः पुरुषः॥" [सांख्य० ३] इत्यभ्युपगमात् । से बाध्येत । सर्वेषां हि कार्यत्वं कारणत्वं वा प्रसज्येत । यहा पुरुषवन प्रतित्वं विकृतित्वं वा सर्वेषां स्यात् । पुरुषस्य वा प्रकृतिविकृतित्वं प्रसज्येत । तदसंबद्धमिदम् । उक्तञ्च।
“यदेव दधि तत्क्षीरं यत्क्षीरं तहपीति च। वदता विन्ध्यवासित्वं ख्यापितं विन्ध्यवासिना।"
६६. 'हेतुमत्त्वादिधर्मासंगि व्यक्तम् अव्यक्तमन्यदिति' एतदपि बाध्येत । न हि यद् "यतोऽव्यतिरिक्तस्वभावं तत् ततो विपरीतं युक्तम्, रूपान्तरलक्षणत्वाद्वैपरीत्यस्य । सत्त्वरज
समसां चैतन्यस्य च भेदे अन्यनिमित्ताभावात् ततश्च यदि न भेदः सर्व विश्वमेकं द्रव्य स्यात् । सहोत्पत्तिप्रसंगच भवेदिति ।
६७. अथ नापूर्वरूपोत्पत्त्या कार्यकारणत्वमभ्युपगम्यते यतो रूपाभेदे तद्विरभ्येत । किन्तु प्रधानं महदादिरूपेण परिणमति, सर्प इव कुण्डलादिरूपेणेति । ततो' रूपाभेदेऽपि " कार्यकारणव्यपदेशो न विरोधमनुभवतीति । तदसत् । परिणामासिद्धेः । तथाहि-किमसौ पूर्वरूपापरित्यागेन परित्यागेन वा ? । प्रथमपक्षे अवस्थानां सांकर्य स्यात् । ततश्च वृद्धावस्थाया. मपि बालाघवस्थोपलभ्येत । द्वितीयपक्षे न परिणामः स्यात् । पूर्वकं हि स्वरूपं निरुद्धम् अपरं चोत्पन्नमिति कस्य परिणामः।
६८. अपि च तस्यैवान्यथाभावः परिणामो भवद्भिर्वर्ण्यते । स चैकदेशेन, सर्वात्मना वा। न तावदेकदेशेन एकस्यैकदेशासंभवात् । नापि सर्वात्मना । पूर्वपदार्यनिरासेन पदार्थान्वरोत्पादप्रसंगात् । अतो न तस्यैवान्यथात्वं युक्तम् । तस्य स्वभावान्तरोत्पादनिबन्ध नत्वात् ।
६९. व्यवस्थितस्य धर्मिणो धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते में तत्स्वभावान्यथात्वमिति चेत् ; तेदयुक्तम् । यतो विपद्यमान उत्पद्यमानश्च धर्मों धर्मिणोऽर्थान्तरभूतोऽभ्युपगन्तव्योऽन्यथा धर्मिण्यवस्थिते तस्य तिरोभावाविर्भावासंभवात् । तथाहि-यस्मिन्ननुवर्तमाने यो व्यावर्तते स ततो भिन्नो यथा घटे अनुवर्तमाने ततो व्यावर्तमानः पटः । व्यावर्तते च धर्मिण्यनुवर्तमानेऽपि आविर्भावतिरोभावासङ्गी धर्मकलाप इति कथमसौ ततो न भिन्न इति धर्मी तदवस्थ एवेति कथं परिणतो नाम ? | यतो नार्थान्तरभूतयोः केटपटयोरुत्पादविनाशेऽचलितरूपस्य घटादेः परिणामो भवति, . अतिप्रसंगात् । अन्यथा चैतन्यमपि परिणामि स्यात् ।
१.मात् सर्वे अ०। २. प्रकृतिलं च सर्वेषां मु०। ३. ततश्च न क०। ४. सर्ववि० अ०व०मु०। ५. ततः प्रकृते रूपा मु० क०। ६. पूर्वरूपात्या अ००। ७.गेन वा पूर्वरूपपरि° मु०। ८. लभ्यते स०। ९. पूर्वकं ख क० अ०। १०.भ्यते ननु ख°मु०क०। ११. चेत् असदेतत् क०मु०। १२. यतः प्रच्यवमान उत्पद्य क. मु०।१३. धर्मिण्यस्थिते अ००मु०।१४. 'भावाना सं क०।१५. ततो भिन्न ब० । ततो नाभिन्न मु०। १६. यथा मु०क०। १७. 'तयोः घटयोरु मु०। "तयोः घटपटयोरु० क०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org