________________
8 ६३. नाप्यनुमानतः तदभावे तदनवतारात् । अथार्थापत्य संबन्धवेदनम् । तथाहिव्यवहारकाले शब्दार्थौ प्रत्यक्षे प्रतिभातः श्रोतुश्च शब्दार्थप्रतिपत्तिं चेष्टया प्रतिपद्यन्ते व्यवहारिणः तदन्यथानुपपत्त्या तयोः संबन्धं विदन्ति । तदप्यसत् । सिध्यत्येवं काल्पनिकः संबन्धो ! न वास्तव: । तथाहि - श्रोतुः प्रतिपत्तिः संकेतानुसारिणी दृश्यते, कलिमार्यादिशब्देभ्यो मिडार्थयोर्विपरीतप्रतिपत्तिदर्शनात् । तन वस्तु शक्यसंकेतक्रियम् ।
10
११०
न्यायावतारसूत्रवार्तिकवृत्तौ
[ ४. आगमपरि०
व्युत्पत्तिकाले कालान्तरे वा नेन्द्रियगोचरः । तत् कथं तत्र शब्दाः प्रवर्तमाना नयनादिगोचरेऽर्थे वृत्ता भवन्ति ? । नापि शब्दोऽर्थानां कारणं स्वहेतोरेव तेषामुत्पत्तेः । नाप्यर्थकार्यम् विद्यमानेऽत्यर्थे दर्शनप्रतिपादनाभिप्रायविवक्षाविभिर्व्यवधानात् । तना [य]क्षतैः संबन्धवेदनम् ।
४. संकेतव्यवहार कालाव्यापिनि वस्तुनि निष्फलश्च संकेतः । तथाहि — कथं नाम अस्माच्छब्दादमुमर्थं प्रतिपद्यन्तां व्यवहारकाले प्रतिपत्तार इति संकेतं कुर्वते प्रेक्षाकारिणः । स चान्यत्वे न संभवति ।
६५. अथ कालान्तरस्थायिनो नित्यस्य वा विशेषस्य सामान्यस्य वा आकृतेर्षा' अवयवसंयोगलक्षणायाः सद्भावात् कथं न संकेतकरण साफल्यम् । तदसत् । नित्यस्य क्रमयोग" पद्यायोगेन अर्थक्रियाविरहतोऽसत्त्वात् । यदि च वस्तुनि शब्दवृत्तिः स्यात्, तदा न कश्चिद् दरिद्रः स्यात् शब्दस्यैव सर्वार्थप्रतिपादकत्वात् । जातेरभिधानीभेद मिति चेत् ; न जातेरभावात् ।
.25
६६. अथावभासमानापि कथं नास्तीति चेत्; न जातिप्रतिभासाऽभावात् । तथाहि - दर्शने परिस्फुटतयाऽसाधारणमेव रूपं चकास्ति, न साधारणम् । अथ साधारणमपि रूपमनुॐ भूयते गौगौरिति । तदसत् । सावले (शाबले) यादिरूपविवेकेनाप्रतिभासनात् । न च साबले - (शाले) यादिरूपमेव साधारणं, प्रतिव्यक्तिभिन्नरूपोपलम्भात् । नापि कल्पनाज्ञाने । कल्पनापि पुरः परिस्फुटमुद्भासमानं" व्यक्तिरूपं व्यवस्यन्ती हृदि बीभिजल्पाकारं प्रतीयते न तद्व्यतिरिक्तो वर्णाक्षराचांकारशून्यः प्रतिभासो लक्ष्यते । वर्णादिस्वरूपरहितं च जातेरूपमुपगम्यते । तन्न कल्पनावसेयाऽपि सा । यच न कचिद्विज्ञाने भाति तदसत् शशविषाणमिव ।
१७. भवतु वा जातिः शब्दार्थः तथापि न शब्दात् प्रवृत्तिः स्यात् ज्ञानमात्रलक्षणत्वाव्वात्यर्थक्रियायाः । तस्याश्च तदैव निष्पन्नत्वात् । अथ जात्या व्यैक्तिर्लक्ष्यते तेन लक्षितलक्षणावृत्तिः । तदसत् । क्रमवत्प्रतीतेरभावात् पूर्वं जातिः पश्चाद् व्यक्तिरिति । किं च यदि नाम शब्दाज्जातिरौभाति व्यक्तेः किमायातम्, येन सौ तां लक्षयति ? । संबन्धरेत् ।
१. तन्नाक्षितः अ० ब० । २. त्या संवेदनम् अ० क० मु० । ३. प्रत्यक्षः प्रतिभावतः मु० क० । ४. पद्यते मु० क० । ५. द्रा ६. 'हारकला मु० क० । ७. संभावयन्ति मु० । ८. स्य तत्रापि विशे० मु० क० । ९. afsव्ययवसं (?) अ० । १०. शब्दः वृत्तिः अ० ब० । ११. धानाचैवमिति चेत् जाते क० । १२. मिति जाते ब० । १३. रूपमिव क० । १४. प्रतिशक्ति क० । १५. 'मानशक्तिखरूपं क० । १६. हृदि याभि° मु० क० । १७. क्षराकार' य० । १८. भावि तच्छशवि० अ० । १९ जातिः तथापि अ० । २०. तस्यास्तु मु० क० । २१. जात्या शकि० क० । २२. जातिः पराभाति ब० । २३. येन तां मु० । २४. लक्षति मु० क० । २५. संबन्धलाचेत् मु० क० ।
Jain Education International
मु० |
For Private & Personal Use Only
www.jainelibrary.org