________________
कारिका ५३. ]
हेत्वाभासनिरूपणम् ।
रूपासिद्धितोऽसिद्धो विरुद्धोऽनुपपत्तिमान् । साध्याभावं विना हेतुः व्यभिचारी विपक्षगः ॥ ५२ ॥
६२. स्वरूपासिद्धः - अनित्यः शब्दः, चाक्षुषत्वात् । सन्दिग्धासिद्धः - वहिसिद्धावुपादीयमानो धूमरूपतया सन्दिह्यमानो बाष्पादिसंघातः । भागासिद्धो यथा - सर्वमनित्यम् हेल्ला- प्रयत्नानन्तरीयकत्वात् । वाद्यसिद्धः सांख्यस्य सुखादीनामचैतन्यं साधयतः । भासाः । यथा अचेतनाः सुखादयः अनित्यत्वादिति । प्रतिवाद्यसिद्धो वैशेषिकस्य जैनं प्रति द्रव्यादीनां सत्त्वं साधयतः । यथा सन्ति द्रव्यादीनि सन्त्वादिसंबन्धादिति । आश्रयासिद्धो यथा - ईश्वरः सर्वज्ञः सर्वकर्तृत्वादिति । संदिग्धाश्रयो यथा - इह निकुजे मयूरः केकावितादित्यादयः आदिग्रहणेन गृपन्ते ।
६३. विरुद्धमभिधातुमाह - विरुद्ध इत्यादि । साध्याभावाव्यभिचारी विरुद्धः । यथा - ॥ नित्यः शब्दः कृतकत्वादिति ।
६४. इदानीमनैकान्तिकमाह - व्यभिचारीति । सपक्षविपक्षगामी अनैकान्तिक इति । [ ५२ ]
६१. अथवा एकान्तवादिनां सर्व एव हेतुखयीं दोषजातिं नातिक्रामतीत्याह - असिद्धः सिद्धसेनस्येत्यादि ।
१०७
असिद्धः सिद्धसेनस्य विरुद्धो मल्लवादिनः । द्वेषा समन्तभद्रस्य हेतुरेकान्तसाधने ॥ ५३ ॥ १२. सिद्धसेनस्य सूत्रकर्तुः साकल्येनासिद्धत्वान् सकल एव हेतुः असिद्ध इति । तथाहि - सामान्यं वा हेतुः स्यात् विशेषो वा ? । अपोहस्य च पूर्वमेव निरासात् तत्र सामान्यं सकलव्यापि सकलस्वाश्रयव्यापि वा हेतुत्वेनोपादीयमानं प्रत्यक्षसिद्धं वा स्यात् 20 अनुमानसिद्धं वा । न तावत् प्रत्यक्षसिद्धम् । तद्धि अक्षानुसारितया प्रवर्तते । अक्षं च विनियतदेशादिनैव संनिकृष्यते । अतः तद्नुसारिज्ञानं तत्रैव प्रवर्तितुमुत्सहते न सकलदेशकालव्यापिनि । अथ नियतदेशस्वरूपाव्यतिरेकात् तनिश्वये तस्यापि निश्चय इति । नैनु नियतदेशस्वरूपाव्यतिरेके नियतदेशतैव स्यात् न व्यापिता । तन्न व्यापिसामान्यरूपो हेतुः प्रत्यक्षसिद्धः । अनुमानसिद्धतायां अनवस्थां प्रतिपादयैन्ति । तदुक्तम् ।
"सामान्यं नानुमानेन विना यस्य प्रतीयते । न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते ॥ असामान्यस्य लिङ्गत्वं न च केनचिदिष्यते । म चीनवगतं लिङ्गं किंचिदस्ति प्रकाशकम् ॥ तस्य चाप्यनुमानेन स्यादन्येन गतिः पुनः । अनुमानान्तरादेव शीतेनैवं च कल्पने ॥
Jain Education International
For Private & Personal Use Only
15
१. संबन्धत्वादिति क० । २. वा भवेत् मु० क० । ३. संनिरूप्यते मु० क० । ४. इति तनियत क० । ५. प्रतिपादयति मु० । ६. न वान° क० । ७. इतः परं श्लोकवर्तिके - " तदुत्पत्तिथ लिज्ञात् स्यात् सामान्यज्ञानसंहतात् । तस्य चाप्यनुमानलात् भवेहिमेन चोद्भवः" इति पद्यं वर्तते तत् तु नोद्धृतं प्रन्थकारेण -- सं० । ८. ज्ञानेनैवं लोकबा० ।
25
29
www.jainelibrary.org