SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ १०६ न्यायावतारसूत्रवार्तिकवृत्तौ [३. अनुमानपरि० ६१. "विशेषेऽनुगमाभावात् सामान्य सिद्धसाध्यता" इति अनुमानदूषणं परिहर्तुमाहसमानपरिणामस्वेत्यादि। समानपरिणामस्य यस्य नियमग्रहे । नाशक्तिर्न च वैफल्यं साधनस्य प्रसज्यते ॥४९॥ ६२. तुल्यपरिणामयो'योलिङ्गसाध्ययोनियमग्रहेऽन्यथानुपपन्नत्वप्रहे सति नाशक्तिः, अननुगमात्, नापि सामान्यमात्रसाधनात् सिद्धसाध्यतादोषः । किन्तु विशेषा एव समानपरिणामिनः साध्यन्त इति ६१. एवं हेतुलक्षणमभिधाय इदानीं पक्षलक्षणमाह - इष्टं साधयितुं शक्यम् इत्यादि । इष्टं साधयितुं शक्यं वादिना साध्यमन्यथा। साध्याभासमशक्यत्वात् साधनागोचरत्वतः॥५०॥ ६२. सिद्धं प्रत्यक्षादिबाधितं वादिना साधयितुं न शक्यते । तथा, इष्टमपि साधनपक्षस्य विषयीकृतं साध्यम् । नोक्तमेव । अन्यथेति उक्तविपरीतं साध्याभासम् । कुत लक्षणम् । इत्याह । अशक्यत्वाद् इति । सिद्धस्य साधयितुम् अशक्यत्वात् । तथा हियथा पूर्व प्रमाणेन सिद्धमपि साधनमपेक्षते तथाऽनेनैव सिद्धमन्यदपेक्ष्येत । तथा, ततोऽप्यन्यदिति न स्यात् साधननिष्ठेति । एवं सिद्धस्य साधयितुमशक्यत्वमिति । ६३. बाधितस्य च साधनागोचरत्वादित्याह-साधनागोचरत्वतः इति । प्रत्यक्षादिबाधितं प्रतिपाद्यमानं न साधनमपेक्षते इति । ६४. यद्वा सिद्धं बाधितं च साधयितुं न शक्यते । ततो हेतोः साधनगोचरचारि न भवतीति । [५०] ६१. एवं पक्षलक्षणमभिधाय इदानीं बाधितोदाहरणान्याह - यथा सर्वगम् इत्यादि । यथा सर्वगमध्यक्षं बहिरन्तरनात्मकम् । नित्यमेकान्ततः सत्वात् धर्मः प्रेत्यासुखमदः ॥५१॥ ६२. सर्वगतं सामान्य प्रत्यक्षं प्रतिज्ञायमानं प्रत्यक्षबाधितम् । एकान्तेन नित्यं शब्दावि बाधितोदा- प्रतिज्ञायमानम् अनुमानबाधितम् । प्रेत्य परलोके धर्मः सुखप्रदो न भवतीति " हरणानि प्रतिज्ञां कुर्वत आगमवाधा । समानतः प्रत्यक्षपूर्वकं श्रौतमभ्युपगतम् । तदपेक्षयोदाहरणम् -बहिरन्तरनात्मकं सर्वमिति । आत्मा परिणामि द्रव्यम् तदभावस्थ प्रतिज्ञायमानस्य प्रत्यभिज्ञाप्रत्यक्षेण अनुमानेन वा अन्यथा बाधनान्न पृथगुदाहरणं युक्तं साविति [५१] ६१. एवं हेतु-पक्षलक्षणमभिधाय इदानी हेत्वाभासानभिधातुमाह -रूपायसिद्धित इत्यादि। १. "मयोर्लिाक०। २. भासम् अ°मु०क०। ३. अशक्यादिति ब०। असत्यला मु०क०। ४. सिद्धश्वासामु०क०। ५. तथा हि पूर्व प्रमाक० मु०। ६. पूर्वप्रमा० अ० ब०। ७. च साधनागोचरखतः इति प्रत्य ब०। ८. मानो मु० क० । ९. ततो हेतोः साधनागोचरलादित्याह साधनगोबर Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy