________________
कारिका ४३. ]
तोमैरूण्यनिषेधः ।
१०३
हेतोः ख्यापनं
I
युक्तम् । पक्षधर्मवचनादेव तदर्थस्य गवत्वात् । अथानेन दृष्टसामर्थ्य क्रियते । तेन, व्याप्तिवचनादेव सामर्थ्यसिद्धेः । यदि चानेन समर्थहेतुख्यापनं क्रियते तर्हि इदमेवास्तु किं हेतुवचनेन १ । तदेवम् उपनयं निरस्यन्ति । निगमनमपि अयुक्तम् । तथा हि- गृहीतव्याप्तिकस्य हेतोर्धर्मिण्युपसंहारादेव निगमनार्थस्य गतत्वात् किं तेन ? । तदेवं त्रिरूप एव हेतुरिति ।
९३. ऐतदूषयन्ति - यत्र हेतौ साध्येन विनाऽनुपपन्नत्वं तत्र किं त्रैरूप्येण १ । तदभावे 'स श्यामः, तत्पुत्रत्वात्' इत्यादौ सत्यपि त्रैरूप्येऽगमकत्वादित्याह - नान्यथेत्यादि । तथा हि । नित्यानित्यात्मकं सर्व सत्स्वान्यथानुपपत्तेरिति उक्ते भवत्येव साध्ये प्रतीतिः । अथ सर्व नित्यं सत्त्वान्यथानुपपत्तेरित्यपि किं न भवति ? । नैं, व्याप्तेरग्रहणात् ।
४. अर्थं व्याप्तेष्टान्ते ग्रहणे सति कथं न त्रैरूप्यम् ? । ननु दृष्टान्ते व्याप्तिग्रहणम् ॥ यद्यसाकल्येन तदा बहिर्व्याप्तिग्रहणेऽपि न साध्यधर्मिणि हेतोर्गमकत्वं स्यात् । अथ साकल्येन तदाऽनुमानं गृहीतग्राहित्वादप्रमाणं स्यात् । अथ देशविशेषप्रतीत्यर्थमनुमानम् । तन्न । यत्र यत्र साधनं तत्र तत्र साध्यमिति आधारान्तर्भावेनैव व्याप्तेर्महणात् कथं न देशविशेषप्रतीतिः ? । अथ आधारसामन्यस्यैव प्रतीतिर्नाधारविशेषस्य । किमिदं सामान्यम् ? किं विवक्षितसाध्यविशिष्टम्, किं वाऽविशिष्टमिति ? । यदि साध्यविशिष्टं तदा कथं न साध्यप्रतीति: ? । अथाविशिष्टं तदा न तंत्र व्याप्तिरिति ।
६५. अथ विवक्षितदेशमन्तरेणापि व्याप्तेरखण्डनीच द्विशेषप्रतीतिरनुमानादिति । ननु स विशेषः व्याप्तिप्राहिणा प्रमाणेन प्रतिपन्नः, किं वा नैति ? । यदि प्रतिपद्मः तदा किमनुमानेन ? । अथ गृहीतस्सदा न तस्य व्याप्तावन्तर्भाव इति । तदेवं " व्याप्तिप्राहिणा प्रमाणेनान्यथानुपपत्तौ गृहीतायां न किंचित् त्रैरूप्येण ।
६६. अथ यदि व्याप्तिप्राहिणा प्रमाणेन साकल्येन व्याप्तिग्रहणं तदा किं हेतूपन्यासेन ?, साध्यस्म सिद्धत्वादिति । सत्यम्, प्रतिपाद्यार्थ हि तदुपन्यासः । तथा हि- द्विविधः प्रतिपाद्यः गृहीतव्याप्तिकोऽगृहीतव्याप्तिकञ्च । तत्रागृहीतव्याप्तिकस्य व्याप्तिग्राहकप्रमाणोपदर्शनमेव नोपपद्येत प्रथमं हेतूपन्यासमन्तरेण । तब सपक्षाद्यनपेक्षं प्रवर्तमानं त्रैरूप्यं व्यपोहति । गृहीतव्याप्तिकस्य तु हेतोरुपदर्शनमात्रमेव क्रियते । एतत् तैरप्युक्तम्, “विदुषां बाच्यो हेतुरेव हि केवल:" [ प्रमाणवा० ३.२६] इति । तदेवं सति नियमे न किंचित् त्रैरूप्येण ? । [ ४३ ] §3.
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो ऽदर्शनाम न दर्शनात् ॥ [ प्रमाणवा० ३.३० ]
इति चेत्-न दर्शनादर्शनाभ्यां नियमं मन्यते । किन्तु तर्कादभ्यूहापरनान्नः । तथा हि " प्रमाणात् तादात्म्यतदुत्पत्ती यथा निश्चीयेते तथा नियमोऽपि निश्चीयतां किं व्यवधिना ? | एतदेवाह - कार्यकारणसद्भाव इत्यादि ।
25
१. तदा मु० । २. सिद्धिः मु० । ३. रिति यत्र मु० क० । ४. तत्पुत्रत्वादो अ० मु० । खत्पुत्र
वाद क० । ५.येवं अ० । ६. भवति व्या° मु० । ७. अत्र क० । ८. तदा व्या° मु० क० । ९. अथ साकल्यं न मु० क० । १०. न विशेष सु० क० । ११. साम्यस्यैव मु० । १२. डना तद्वि मु० अ० ब० । १३. अथ ही क० । १४. ०० । १५. असत्यम् मु० क० । १६. 'मानं व्यापो अ० ब० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org