________________
कारिका ३८. ]
परोक्षस्म द्वैविध्यम् ।
९९
या स्वरूपेणेति ? । प्रथमपक्षे अनवस्था । द्वितीये त एव अर्थक्रियाकारिणः किं नैकीभवति ? | अभ्युपेतहा निश्चेति । तदेवमत्र बहुबक्तव्यम् । तब नोच्यते बिस्तरभयादिति । तनापोहोऽपि परोक्षस्य विषय इति । [३७]
६१. एवं विषयविप्रतिपत्तिं निराकृत्य इदानीं फलविप्रतिपत्तिं निराकर्तुमाह-प्रमाणफलसद्भाव इति ।
प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवदुषैः ॥ ३७ ॥
१२. यथैव हि प्रत्यक्षस्य प्रमाणमेव फलम् अर्थाधिगतिरूपं, तदेव व प्रमाणं परिच्छेदकत्वात्, तथा परोक्षस्यापि विज्ञेयमिति । [३७]
६१. संख्याविप्रतिपत्तिं निराकुर्वन्नाह परोक्षं द्विविधम् इति । परोक्षं द्विविधं प्राहुर्लिङ्ग शब्दसमुद्भवम् । लैङ्गिकात् प्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते ॥ ३८ ॥
§ २. अक्षाणां परं परोक्षम् । कारस्करादित्वात् सुडागमः । द्वौ विधौ प्रकारावस्येति द्विविधम् । द्वैविध्यमेवाह - लिङ्गशब्दसमुद्भवम् इति । लिङ्गजनितं शब्दजनितमेव परोक्षार्थनिश्चायकं नान्यदिति ।
अकलड
मतस्य
६३. नम्बन्यदपि प्रत्यभिज्ञादिकं परोक्षं मन्यन्ते । तदेवाह - लैङ्गिकात् प्रत्यभि - ज्ञादि भिभमन्ये प्रचक्षते - समानतन्त्राः, “परोक्षं प्रत्यभिज्ञादि त्रिधा भुतनिरासः । मविप्लवमिति” वचनात् इति । तदयुक्तम् । यतः श्रौतं त्रिविधं भवति । न त्वविप्लवम् । तथा हि- प्रत्यक्षेण परोपदेशसहायेन यज्जन्यते ज्ञानं तच्छ्रोतम् प्रत्यक्षपूर्वकम् । तथा लिङ्गेन परोपदेशसैंहितेन जनितं श्रौतं लिङ्गपूर्वकम् । परोपदेशेन तु केवलेन जनितम् शब्दॆपूर्वमिति । एवं त्रिविधं भवति श्रौतम् । न त्वविप्लवं प्रमाणमित्यर्थः । प्रत्यक्षे हि 20 परोपदेशस्यानर्थकत्वात् । अथ तत्रापि किंचित् परोक्षम् । तर्हि तत्रानुमानमेव स्यात् तथा हि-परोक्षं हि वस्तु न साक्षात् प्रतीयते किन्तु अन्यदर्शनात् । अन्यस्माच यदि अनियतात् प्रतीयेत तदा यतः कुतश्चित् सर्व प्रतीयेत । नियताच प्रतीतौ लैङ्गिकमेव । तत्र यदक्षानुसारि प्रत्यभिज्ञानं तत् प्रत्यक्षमेव । न श्रौतम् । यत्तु प्रत्यक्षानिश्चितम् दृष्टसाधर्म्याद् अर्थक्रियाकारित्वं निश्चीयते तलैङ्गिकमेवेति कुतस्त्रिविधं परोक्षमिति ? [३८] | 24
१. अथायमपि वहिर्दाहादिसमर्थ इति सामर्थ्यविषयं प्रत्यभिज्ञानं न प्रत्यक्षम्, प्रत्यभिशा- सामर्थ्यस्य परोक्षत्वात् । नाप्यनुमानम्, व्याप्तिस्मरणाद्यननुभवात् । तस्मात् विचारः । प्रमाणान्तरमिति । तदयुक्तम् । यस्मात् न सामर्थ्य वहेरन्यत् । ततः प्रत्यक्षेण तत्स्वरूपनिश्चयादेव सामर्थ्यस्य निश्चयात् । यो हि' दाहिकां शक्तिं न जानाति स वहिमपि । तत् स्वरूपापहारे भिन्नं सामर्थ्यमिति चेत्; न मचादेः तथाभूतस्यैव वहिस्वरूपस्म " पर्यायस्मोत्पत्तेरिति । भवतु वा सामर्थ्यम् । तनिश्वयो मूढस्य दृष्टसाधर्म्यादनुमानमेव
१. तदेव प्रमाणं अ० ब० । २. विज्ञानमिति भ० क० । ३. पारस्क' मु० । ४. "देशरहि' मु० । ५. शब्दपूर्वकमिति मु० । ६. परोक्षं वस्तु अ० ब० । ७. प्रतीतिलैंङ्गिकमेव ब० मु० । प्रतीतिलौकिकमेव क० । ८. यदाक्षा क० । ९. यो दाहि० क० । १०. त्पत्तिरिति क० । ११. भवतु साम
क० मु० ।
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org