SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ९८ [ ३. अनुमानपरि० तथाहि- - न तावत् सामान्यं शब्दादिविषयः, अविद्यमानत्वात् । नापि स्वलक्षणम्, प्रत्यक्षबच्छाब्देऽप्रतिभासनात् । तदुक्तम् । 10 न्यायावतारसूत्रवार्तिकवृत्तौ ● इति । नापि ज्ञानम्, तस्यापि स्वलक्षणत्वात् । नापि ज्ञानाकारः । किन्तु स एव दृश्यविकल्प्यावेकीकृत्य बहीरूपतयाऽध्यस्तो ऽर्धपञ्चमाकारः । वैभाषिकाणां तु आकाराभावा[s]ज्ञानमेव बीरूपतयाऽभ्यस्तमर्ध चतुर्थाकारोऽपोह इति न निषेधमात्रः केवलः, तस्य विधिरूपतया बस्तुनि प्रतीयमाने सामर्थ्यात् प्रतीतेरिति । कल्पिताकल्पिततया स्वपरदर्शनयोर्भेद इति । अतश्च - 18 "सर्वे भाषाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्याम् यस्माद् व्यावृत्तिभागिनः ॥" [ प्रमाणवा• ३.३९] " तस्माद्यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जाति मेदाः प्रकल्पयन्ते तद्विशेषावगाहिनः ॥ तस्माद्यो येन शब्देन विशेषः संप्रतीयते । न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥" 1 [ प्रमाणवा० ३.४०, ४१] इति १३. तेन न सर्वशब्दानां पर्यायता । नापि लिङ्गलिङ्गिनोरभावः । विशेषणविशेष्याभावो वा । तथा हि- स्वकारणादेव भावाः सकलसजातीयविजातीयव्यावृत्ता जायन्ते । तेनानेक व्यावृत्यात्मकेषु भावेषु एकव्यावृत्त्या निश्चयेपि व्यावृत्यन्तरेणाऽनिश्चिताः । तनिच" याय शब्दलिङ्गप्रयोगो न पर्यायतामाप्नोति । वस्तुभूते चोपाधौ प्रवर्तमानः शब्दः उपाधिमन्तमशेषोपाध्युपकारकं निश्चाययन्नशेषोपाधीनां निश्चयात् पर्यायतां शब्दान्तराणामापादयेवित्यादयो दोषा वास्तवे शब्दार्थे प्रन्धकारैः प्रतिपादिताः । तस्माद् अपोहपक्षो व्यायानिति । 1 "शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविव तच्छन्दाः कल्पितगोचराः ॥" १४. अत्रोच्यते - तावदुक्तम् 'दृश्यविकल्प्ययोरेकीकरणमपोहो न तुच्छरूप:' इति । तदेकीकरणं किं तेनैव ज्ञानेन किं वा ज्ञानान्तरेणेति ? । न तावत् तदेव विज्ञानं स्वाकारं 2 दृश्यं च पृथक् प्रतिपेद्य ऐक्यं प्रतिपद्यतेऽप्रतीते:, क्षणिकत्वाच । नापि ज्ञानान्तरम् । तद्विभिन्नं वा स्यात्, एकं वा भवेदिति ? । भिन्नं कथम् ऐक्यं प्रत्येति ? । स्वसंवेदनं हि ज्ञानविषयं दर्शनं तु दृश्यविषयमिति । एकं तु यदि द्वयं प्रत्येति कथमैक्यं । अथैक्यं प्रत्येति । कथं द्वयोरैक्यमिति ? 1 ६१५. अथ वासनाप्रतिबोधात् विकल्पविज्ञानं सकल [स] जातीयसाधारणम् उत्पद्यते * इत्येकत्वप्रहणमुच्यते । न, वैस्तुभूतसमानपरिणाममन्तरेण संजातीय विभागानुपपत्तेरिति । एकार्थक्रियाकारित्वात् सजातीयत्वमिति चेत्; क्रियायाः किम् अन्यक्रियैक्यादैक्यम्, किं Jain Education International १. स्तोत्राकारा नै क० । 'स्तोर्ध्व पच' मु० । २. प्रतीतिरिति क० मु० । ३. भ्यां व्यावृत्तिभागिनो यतः - प्रमाणवा० । ४. यतो यतो क० मु० ब० । ५. तस्माद्विशेषो यो येन धर्मेण सं प्रमाणवा० । ६. न शब्दा अ० । ७. केषु एकव्या मु० क० । ८. निश्चित्याशे मु० क० । ९. यधावदु मु० क० । १०. तेनैव ज्ञानान्त' क० मु० । ११. प्रतिपाद्य क० । १३. एकम् मु० । १४. वासनाप्रबो मु० क० । १५. न च वस्तु क० । १७. 'जातीयानि क० । १२. अनेकं अ-टि० । १६. सहजा° अ० । For Private & Personal Use Only www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy