________________
कारिका ३५० ]
एकान्तनित्यादावसत्त्वम् ।
९१
१८. सा च कूटस्थस्य न विद्यते । तथा हि- नित्यं क्रमेण वा शक्तिमत्स्यात् यौगपद्येन एकान्त बा ? । न तावत् क्रमेण । सकलसामर्थ्योपपनस्य एकक्षण एव समस्त कार्यनित्ये सरनिषेधः । करणप्रसङ्गात् । सहकार्यपेक्षा च समर्थस्य न विद्यते । असामध्यें वा पूर्वमसमर्थस्य सहकारिसानिध्येन सामर्थ्योत्पत्तौ परिणामित्वप्रसंग: । सहकारिणा सामर्थ्यमुत्पाद्यमानं ततो मिन्नमभिनं वा स्यात् ? । अभेदपक्षे कूटस्थनित्यताहानिः । भिन्नकरणे तस्मादेव कार्योत्पत्तिः स्यात्, न नित्यात् । इत्यादि सौगतैरेवात्र विजृम्भितं तदिह नोच्यते विस्तरभयात् । तन्न क्रमेण कर्तुत्वम् ।
६१९. नापि यौगपद्येन प्रथम एव क्षणे कृतत्वात् द्वितीयादिषु न किचित् कर्तव्यमस्तीति सर्वसामर्थ्यरहितस्य व्योमोत्पलस्येवासत्त्वं स्यात् । पुनः करणे वा क्रमपक्ष एव स्यात् । तत्र चोको दोषः । न च कृतकरणमस्ति । तन्न यौगपद्येनापि करोति । न चापरं ॥ क्रमाक्रमरूपं प्रकारान्तरमुपेयते, अस्मन्मतानुप्रवेशप्रसंगात् । तन्न कूटस्थ नित्यं किंचित् करोति ।
२०. नाप्येकान्तक्षणिकम् । तदपि हि क्रमेण वा कुर्यात् यौगपद्येन वा ? । न तावत् एकान्तक्ष- क्रमेण । स हि देशक्रमो वा स्यात् पिपीलिकानामिष, कालक्रमो वा पत्रनालाजिके सरवनिषेधः । दीनामिव । तत्र नैकस्मिन्देशे कार्य कृत्वा देशान्तरे क्षणिकं वस्तु करोति । तत्रैव तस्य ध्वस्तत्वात् । नाप्येकस्मिन् क्षणे कृत्वा द्वितीये विदधाति, क्षणिकत्वहानिप्रसंगात् । ॥" २१. अथ नायं क्रमः सौगतैरुपेयते । किं तर्हि ? । कार्यान्तरासाहित्यं कैवल्यम् अङ्कुराः । यौगपद्यमपि कार्यान्तरसाहित्यम् । तथा हि- लोको वदति क्रमेण यवाङ्कुरा उत्पन्ना यौगपद्येन वा इति । ननु कल्पनामात्रमेतत् वस्तुतैः पुनः सौगतानां द्विविधं कारणं सामीलक्षणम् सहकारिलक्षणं च । तत्र यदि साममीलक्षणं कारणमाश्रित्य क्रमयोगपद्यमिष्यते । तन संभवति । तत्र यौगपद्याभावात् । एकमेव हि कार्य सामग्री जनयति । ॥ नापरम् । वन कार्यान्तरसाहित्यलक्षणं यौगपद्यं तत्रास्ति । नापि सहकारिकारणमभ्युपगम्य तथाभावव्यवस्था । तत्र हि यौगपद्यस्यैव संभव इति । तथा हि तानि स्वं स्वमुपादेयकार्यम् उपादानभावेन परस्परकार्य च सहकारिभावेन जनयन्तीति कुतः क्रमः । तत् परापेक्षया कल्पित एव क्रमयौगपद्यभावः । न हि निरंशं वस्त्वनेककार्यजनकं संभवति सांशताप्रसंगात् । न चोपादानसहकारिभावः संभवति । तथा हि- द्वितीय स्वभावाभावादेकमेव 24 जनयेत् । न चैकं जनकैमुपेयते । तन्न क्षणिकपक्षेऽपि क्रमयौगपद्यक्रियासंभवः ।
६२२ किंच क्षणिकं वस्तु सव्यापारं वा कार्य कुर्यात् निर्व्यापारं वा १ । निर्व्यापारस्य करणे खपुष्पस्यापि कार्यक्रिया स्मात् । व्यापारवत्वे प्रथमे क्षणे उत्पद्यते द्वितीये व्याप्रियते इति क्षणिकत्वहानि: । अथ प्राकालभावित्वमेव व्यापारः नापरः । तर्हि तत्क्षणभाविनां जगत्क्षणानामपि कारणत्वं स्यात् । तथा च सूत्ररूपताऽपि घटस्य स्यात् । न चोपेयोर्थिनां नियतकारणोपादानम् स्यात् । न चानन्तरक्षणविनष्टे चिरतरविनष्टे वा कश्चिद्विशेषोऽस्तीति
१. सनि म० प० । २. कारिसनिषो मु० क० । ३. सरवसा सु० क० । ४. न वा मु० । ५. वस्तुनः सु० क० । ६. तत्र क्रमयोग° अ० प० । ७. तत्रास्ति नापि क्रम इति । नापि सङ्घ ९. द्वितीयांशभा क० मु० । १०. कंमुपपद्यते ब० । चोपेने मा०ि ० ।
탕탕
८. न च निरं° क० मु० । ११. कार्य● ० ० ।
१२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org