________________
कारिका ३५. ]
अनुगतव्यावृत्ताकारं वस्तु ।
"
मानवदप्रमाणत्वात् अबाधकमिति । किश्च सत्त्वादेर्लिङ्गस्य व्याप्तिग्रहणं न प्रत्यक्षेण, परोक्षत्वात् क्षणिकत्वस्य । अनुमानेन ग्रहणेऽनवस्था इतरेतराश्रयत्वं च प्रतिपादयन्ति । तदितरेतराश्रयपरिहारार्थं "प्रत्यभिशानिरपेक्षं स्वप्रतिबन्धबलादनुमानं प्रमाणम्” इति यदुक्तम्, तद्युक्तमिति ।
६८. अथ सत्त्वमर्थक्रियाकारित्वेन व्याप्तम् । अर्थक्रियाकारित्वं च क्रमयौगपद्येनेति । तयोश्च व्याप्तिः प्रत्यक्षेणैव प्रतीयत इति नानवस्थेति । तथाहि - क्रमेणाङ्कुरादिकं कार्यमुत्पद्यमानमुपलभ्यते । तदभावे यौगपद्येन उभयनिषेधे केवलभूत माहि प्रत्यक्षं प्रकारान्तराभावं निश्चायेयति । तेन क्रमयौगपद्याभ्यामर्थक्रियाकारित्वस्यै व्याप्तिं प्रतिपद्यत इति । ततो नित्यात् क्रमयौगपद्यं निवर्तमानमर्थक्रियाकारित्वलक्षणं सत्त्वमादाय निवर्तमानं क्षणिकेष्वेवावतिष्ठत इति व्याप्तिग्रहणं प्रत्यक्षमूलमिति ।
६९. भवत्वेकान्त नित्यात् क्रमयौगपद्यनिवृत्तिनिबन्धनार्थक्रियाव्यावृत्तिः, तथापि न सा क्षणिकेष्वेवावतिष्ठते । यथैकान्तनित्येष्वर्थक्रिया न संभवति, तथैकान्तक्षणिकेष्वपीति । एतच पश्चात् प्रतिपादयिष्यते । तन्न गृहीतव्यातिकं क्षणिकानुमानं प्रत्यभिज्ञाबाधकमिति । प्रतिपादयिष्यते च प्रत्यभिज्ञायाः प्रामाण्यमिति । तस्मादनुगतव्यावृत्ताकारा बुद्धिर्व्यात्मकं वस्तु व्यवस्थापयति । [३४]
६१. एतदेवाह - घटमौलिसुवर्णेष्विति ।
घमौलिसुवर्णेषु बुद्धिर्भेदावभासिनी ।
संविनिष्ठा हि भावानां स्थितिः काऽत्र विरुद्धता ॥ ३५ ॥
Jain Education International
८७
१. मुत्पाद्य क० । २. निश्वापयति मु० क० । ३. खव्या० ब० 1 ४. भासिनेति क० मु० । ५. तया मु० । ६. मुकुटश्चेति मु० । ७. सत्त्वाद्यथा मु० क० । ८. धर्म्यभेदः अ० । प्रसः मु० क० । १०. 'कान्तेनाभेदः अ० । ११. बन्धस्य क० ।
९. साध्य
वृत्ताकारं
६२. मेदावभासिँनीति । भेदमनुगतव्यावृत्तरूपमवभासितुं शीलं यस्याः सा तथा । अनुगतव्या. तथाहि - सुवर्णम् सुवर्णम् इति अनुगताकारा बुद्धिः । घटश्च मुकुटं चेति ॥ व्यावृत्ताकार । चानुभूयत इति । न चैतद्वाच्यम् - 'विरोधादेकं वस्तु नोभयरूपम्' इति । यत आह- संविभिष्ठा हीति यस्मादन्यत्रापि नीलपीतव्यवस्था संवेदननिबन्धनैव । तदिहापि विशेषेऽपि संवेदनमेव प्रमाणमिति ।
वस्तु ।
६३. एवं प्रत्यक्षेणोभयात्मकं वस्त्वनुभूयमानमपि यो मोहात् न प्रतिपद्यते तं प्रत्यनुमानमुपन्यस्यते - सत्त्वान्यथानुपपत्तेः सर्व नित्यानित्यात्मकम् यथा घटः, एकान्तनित्येऽनित्ये- 2 वाऽर्थक्रियाविरोधात् । सन्ति च सप्त पदार्थाः । न तावद्विशदतरदर्शनावसेयस्य सत्त्वस्य ज्ञानवादिमताश्रयणेनासिद्धत्वमुद्भावनीयम्, विज्ञानस्याप्यभावप्रसक्तेः । नापि सर्वशून्यवादिमताश्रयणेन, वादे तस्मानधिकारात् । 'सर्वाऽभावे हि कस्मै किं केन प्रतिपादयेत् इत्यादेरुकत्वात् । नापि प्रतिज्ञार्थैकदेशत्वेनासिद्धत्वम्, धर्मभेदस्याप्यभ्युपगमात् । नापि विकल्पकल्पितो धर्मभेदः । तदा हि खरतुरगविषाणयोरपि गम्यगमकभावः स्यात् । कल्पिताच 10 हेतोः कल्पितसाध्यैसिद्धिप्रसक्तेः । नाप्येकान्तेन भेदः संबन्धासिद्धेः समवायादिसंबन्धैनिरासात् । न चात्र भेदाभेदपक्षभावी दोषो गुडनागरसंज्ञितवस्त्वभ्युपगमात् । तदुक्तम्
For Private & Personal Use Only
10
15
www.jainelibrary.org