________________
न्यायावतारसूत्रवार्तिकवृत्ती [२. प्रत्यक्षपरि० प्रत्यभिज्ञायमानत्वं यदि लिङ्गमिहोच्यते। तस्याप्यध्यक्षतो व्याप्तिकत्वेन सहकचित् ॥ यद्यनुमानतो व्याप्तिरनवस्थाऽऽपतेत् तव । मताभ्यां मानमस्त्यन्यत् यस्माद् व्याप्तिग्रहो भवेत् ॥ कल्पनापोढमध्यक्षं निर्विकल्पकसिद्धितः। ज्ञातव्यं प्रत्यभिज्ञातो नाध्यक्षं कल्पनायुता॥ नाक्रमात् कमिणो भाषा नाप्यपेक्षाऽविशेषिणः। कमोडवा सती सातु खयमेकत्वबाधिका॥ तेनाबाध्यत्वमप्यस्या नानुमानाच बाधनात् । नचानयापि बाध्यत्वादनुमानमवाधकम् ॥ अप्रामाण्येन युक्तायाः कुतो बाधकतास्थितिः। अप्रामाण्याच नैवास्याः अनुमानं प्रमेष्यते ॥ अन्योन्याश्रयदोषोऽपि तेन नास्ति विपश्चिताम् । खसाध्यप्रतिबन्धाद्धि प्रमाणमनुष्यते॥ क्रमाक्रमक्रियाऽभावात् बाधकात् प्रतिबन्धवित् । बाधकं साध्यमाकल्लिामालिजय धारयेत् ॥ निरुच्चासतया हंत! भावानां दुःखमापतेत् । तदबाध्याऽनुमा बाध्या प्रत्यभिक्षा न चाक्षजम् ॥ अनुमानेन नो बाध्यमिति वाच्यं विपश्चिता। सूर्यादिवस्तुनोऽध्यक्षमनुमानेन बाधितम् ॥ अर्थस्यासंभवे भावात् न विशेषो द्वयोरपि । बीजत्वाच्छालिबीजं च यवाहुरकर यथा ॥ अनुमा बाध्यतेऽध्यक्षात् प्रत्यभिज्ञापि ते तथा । जनकत्वं यदन्त्यस्य स इत्यंशे यदा नयेत् ॥ एकत्वात् प्रत्यभिज्ञानं तैदा ह्यध्यक्षबाधितम् । तदेवं प्रत्यभिज्ञाया नाऽबाध्यत्वमिहास्ति वः॥ कारणादुष्टताप्यस्याः भ्रान्तेरिव कुतो भवेत् । नचैतस्याः प्रमाणत्वादन्योन्याश्रयदोषतः॥ प्रत्यक्षतोऽपि नाक्षाणामत्यक्षाणामदुष्टता । तस्याः प्रत्यक्षतायां स्यात् प्रतिबन्धस्य हानितः॥ अनुमानत्वेऽपि नैवास्याः कारणस्य विशुद्धता।
तदेवं प्रत्यभिज्ञाया न प्रामाण्यमिति स्थितम् ॥" ६५. अत्रोच्यते- "किमिदमिन्द्रियान्वयव्यतिरेकानुविधायि स्थिरस्थूरवस्तुमाहि प्रत्यक्षं नानुभूयते १ किं वा अनुभूयमानमपि निशीथिनीनाथद्वयावलम्बिप्रत्यक्षवद् भ्रान्तमिति ।। . व नानुभूयत इति ब्रुवाणोऽनुभवेनैव निराक्रियते। द्वितीयेऽपि किं कदाचित् कुमुदिनीनायैक्यप्राहिप्रत्यक्षवत् कस्यचित् क्षणिकपाहि प्रत्यक्षमुत्पन्नम् ?, येनैतद् भ्रान्तं स्यादिति ।
६७. यवानुमानं क्षणिकत्वमाहि तत् प्रत्यक्षबाधितत्वात् 'अश्रावणः शब्दः' इत्यनु
१. स्थापयवे तब प०। २, भावो क०। ३. वारयेत् ब०क० मु०। ४. नवाक्ष क० मु०। ५. भनुमान भक० मु०। ६. °स्य इत्यं क०। ७. ज्ञानं बक०1८.न बाध्य क०मुब। ९. कारणयाविरुद्धता अ०। १०. किमिदानीमि० अ०। ११. तत्रानुभूक०। १२. नाथैकग्राही अ० क०मु०। १३. प्राहि न प प्रा ब०।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org