SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ कारिका ३४.] प्रत्यभिज्ञाप्रामाण्यनिरासः । किश्च किं दृष्टां वेति किं वा कालादियोगिताम् । त्वं दृश्यमानत्वं किमैक्येन प्रपद्यते ॥ किंवा मेदेन पूर्वस्मिन्नंन्योन्यानुप्रवेशनात् । स इत्ययमिति वा स्यात् सोऽयं नेति मतिर्भवेत् ॥ द्वितीयेऽपि यदा सोऽयं द्वयं भाति विरोधवत् । सामानाधिकरण्यं हि विरुद्धज्ञानयोः कुतः १ ॥ अथ प्रत्यय मेदेऽपि प्रतिभास्यं न भिद्यते । स्वतं प्रतिभास्यं स्यात् ज्ञानमात्रं तदा भवेत् ॥ अथाशुपतया भाति यदा वस्तु पुरः स्थितम् । aterersisध्यक्ष कथं नास्ति विपश्चिताम् १ ॥ अत्रुट्यद्रूपता केयं किं पूर्वस्य प्रकाशनम् । किं वा तत्तुल्यरूपस्य यदि वा सान्तराग्रहः १ ॥ तत्र पूर्वग्रहे न स्याद्वर्तमानग्रहः सदा । पूर्वपूर्वग्रहे वा स्यात् जन्मादिप्रतिभासनम् ॥ यदि तत्तुल्यता भाति सिद्धमेव प्रसाध्यते । अन्तराग्रहणं त्वाशुकारित्वादुल्मुके न किम् ? ॥ पूर्वकालादियोगित्वे यद्यध्यक्षं न युक्तिमत् । पूर्वकालाद्यभावे हि तद्विशिष्टग्रहः कथम् ? ॥ भावे तु पूर्वकालादेर्वर्तमानत्वमापतेत् । तथा च न नित्यत्वं स्याद्वर्तमानग्रहे सति ॥ अथ स्मृत्युपनीतेन तेन तस्य विशेषणम् । स्मरणेनोपनीतं हि न वस्त्वध्यक्षगोचरः ॥ न हि नीलोत्पलशानं गन्धे स्मृत्युपढौकिते । वर्तते जातुचित् तस्मात् न तत्कालविशिष्टता ॥ सविकल्पकमध्यक्षं प्रत्यभिशा नं चेद्भवेत् । अक्षान्नियमतो न स्यादिति चेत् तन्न युक्तिमत् ॥ पूर्वकालविशिष्टेन सेंशेऽर्थेऽवलोकिते । सहचारितया ज्ञानं स्मार्त चन्दनगन्धवत् ॥ तथाहि चान्दने गन्धे रूपेण सहचारिणि । रूपदृष्टेः स्मृतिर्यद्वत् तद्वत् पूर्वविशेषणे ॥ इयमानार्थतुल्येन वस्तुना सहचारि यत् । पूर्वकालादि तत्स्मृतं वर्तमानविशेषणम् ॥ तत् स्थितं स्मरणाध्यक्षात् कल्पनाशानमीदृशम् । यत् स एवायमित्यस्य नापूर्वार्थग्रहस्थितिः ॥ निश्चितत्वं दृढत्वं वा सविकल्पकताऽपि वा । Jain Education International १. पूर्वस्मिन् स इत्य' क० मु० य० । २. प्रसाध्यति मु० क० । ०५. सदस्य ब० । ६. या क० मु० । ७. गदिध्यते मु० क० । त्वमप्यनाशित्वं किं वाऽबाध्यत्वमुच्यते ॥ सर्वास क्षणिकत्वेन नाऽनाशित्वं हि संविदाम् । अबाध्यताऽपि नैवास्ति यस्मादग्रे वदिष्यते ॥ अनुमानादते नान्यत्कल्पनाशान मिष्यते । प्रमाणं प्रत्यभिशाया न च लिङ्गमिहास्ति वः ॥ 1 For Private & Personal Use Only ८५ 15: ३. णं चाशु ब० । ४. प्रथा ८. °मिहोच्यते । तस्मान्य° अ० 1. 20 25 25 www.jainelibrary.org
SR No.001047
Book TitleNyayavatarvartik Vrutti
Original Sutra AuthorSiddhasen Divakarsuri
AuthorShantyasuri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages525
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Nyay, Philosophy, P000, & P010
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy