________________
न्यायावतारसूत्रवार्तिकवृचौ [२. प्रत्यापरि० ६१. पुनरपि विशेषमभिधातुं परमाशइते -अथास्तु इत्यादि।
अथास्तु युगपदासो द्रव्य-पर्याययोः स्फुटम् ।
तथापि कल्पना नैषा शब्दोल्लेखविवर्जिता ॥ ३२ ॥ ६२. उक्तमेतत् घटपटवदेकज्ञानावभासित्वेऽपि शब्दोल्लेखरहिता नेयं कल्पना इति । [३२] • ६१. उक्तमेतत् न पुनर्युक्तमित्याह - चकास्ति इत्यादि।
चकास्ति योजितं यत्र सोपाधिकमनेकधा ।
वस्तु तत् कल्पनाज्ञानं निरंशाप्रतिभासने ॥ ३३ ॥ ६२. यत्र साने योजितं वस्तु प्रतिभाति । कथं योजितमित्याह । सोपाधिकामिति । सहोपाधिना वर्तते सोपाधिकम् । ननु विशेषणविशेष्यभावस्य निराकरणात् कथमेतदित्याह" अनेकषेति चतुरश्र(ख)त्वादिना । नहि अनुभवसिद्धं युक्तिशतेनापि निराक्रियते तबज्ञानं सविकल्पकम् । विपर्यये बाधकमाह-निरंशाप्रतिभासन इति । निरंशस्य परमाणोरप्रतिभासने सतीत्यर्थः । तस्मात् प्रथमाक्षसन्निपात एष दीर्घहखवर्तुलादि वस्तु प्रत्यक्ष प्रतिभातीति । तेन तत् सविकल्पकमिति स्थितम् । [३३]
६१. एवं तिर्यक्सामान्यमवस्थाप्येदानीम् ऊर्ध्वतासामान्यमवस्थापयितुमाह-मेद"ज्ञानादित्यादि।
भेवज्ञानात् प्रतीयन्ते यथा भेदाः परिस्फुटम् ।
तथैवाभेदविज्ञानादभेदस्य व्यवस्थितिः॥ ३४॥ ६२. तथाहि - यद् यथा प्रतिभाति तत् तथा सद्व्यवहृतिमवतरति । यथा कुवलयं नीलरूपतया विराजत् तेनैव रूपेण अस्ति । क्षणपरिगतेनैवै रूपेण सकलाः पदार्थमात्राः . प्रतिभान्ति न पूर्वापरकालपरिगतात्मनेति स्वभावहेतुः प्रत्यक्षसिद्धे व्यवहारप्रवर्तनफैल इति ।
६३. तथा, यत् सत् तत् सर्व क्षणिकमित्यादयः भेदज्ञानहेतवः । एतस्माद्भेदज्ञानाद् यथा मेदाः पर्यायाः क्षणिकाः प्रतीयन्ते, तथा अमेदज्ञानादनुगताकाराद् अमेदस द्रव्यम व्यवस्थितिरिति । ४. अथेदमनुगतं झानं निर्विषयत्वादप्रमाणम् । तथाहि
"किं दृष्टे प्रत्यभिज्ञानमुतखिन्मध्यवर्ति नि । किं वा दृष्टिपथप्राप्ते प्रमाण वस्तुनीष्यते ॥ तत्र पूर्वोत्तराध्यक्षे पूर्वोत्तरग्रहंक्षमे । मध्ये नेन्द्रियवृत्तिः स्थावकथं तत्र प्रवर्तते ॥ न चावस्थात्रयव्यापि किंचिदेकं प्रतीयते।
प्रत्यक्षेण तथाभावे जन्ममृत्युगतिर्भवेत् ॥ १. अथास्तीत्यादि म०। २. विराजते ब०। ३. नैव च रूपे मु०। ४. परिगतेनेति अ०। ५. तनहेतुफल अ० । ६. मेदपर्यायाः मुक०। ७. वाऽदृष्टि ब०। ८. पथं प्रामु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org