________________
सविकल्पकसिद्धिः ।
नासंयुक्तैर्न संयुक्तैर्निरंशैः क्रियते महत्।
अयोगे प्रतिभासोऽपि संयोगेऽप्यणुमात्रकम् ॥ २९ ॥ [२९]
६१. अथ कोऽयं प्रतिभासधर्मः १ । किं वस्तु, किं वा अवस्तु ? | यदि वस्तु तदा अषयविदुषणम् । अथावस्तु तदा कथमभ्रान्तं प्रत्यक्षं प्रचयावभासि ? । नैतदस्ति । यतो न किंचित् स्थौल्यं परमाणुभ्योऽन्यत् । किन्तु विततदेशाः परमाणवः तथा प्रतिभासन्त इति । कथं नान्तरावभास इति चेत्; किमिदम् अन्तरम् ? किम् आकाशम्, किं वा विजातीयाणवः, किं वा रूपभेदः, देशभेदो वेति ? तत्राकाश विजातीयपरमाणुप्रतिभासाभावो न दोषाय । नहि रसपरमाण्वप्रतिभासः चाक्षुषे' अतीन्द्रियाकाशाप्रतिभासो वा दोषमावहति । भिन्नरूपता तु प्रतिभासत एव । अन्यथा परमाणुमात्रप्रतिभासः स्यात् । देशोऽपि न स्वरूपादन्यः । सोऽपि स्वरूपेणैव व्याख्यातः । अन्यथा भिन्नस्वरूपपरमा- 10 प्रतिभासे न किंचित् प्रतिभासेत, अन्धमूकं जगत्स्यादित्येतदेवाह - भिन्नदेशखरू - पाणामित्यादि ।
कारिका ३१.]
भिन्नदेशखरूपाणामणूनामग्रहे सति ।
तत्स्थौल्यं यदि कल्पेत नावभासेत किंचन ॥ ३० ॥ [३०]
६१. इह हि किं स्थौल्यमात्रं प्रतिभाति, किं वा स्थौल्यविशेष इति । तत्र यदि स्थौल्य - ॥ मात्रम्, तदा नीलार्थी पीतेऽपि प्रवर्तेत । यद्वा न कुत्रचिदपि विशेषानवधारणात् । अथ विशेषः । स नीलपरमाणुप्रतिभासे सति 'नीलस्येदं न पीतस्येति' प्रतिभासेते । तेषां मिन्नस्वरूपाणां प्रतिभासानभ्युपगमे 'तेषां स्थौल्यम्' इति न प्रतिभासेते । न चैवम् । अतः परमाणव एव विततदेशाः तथाऽवभान्ति इति नान्यत् किंचिदिति यत् प्रत्यक्षे कल्पनात्वमादधीतेत्याशङ्कयाह - नैतदस्ति इति ।
८३
नैतदस्ति यतो नास्ति स्थौल्य मेकान्ततस्ततः । भिन्नमस्ति समानं तु रूपमंशेन केनचित् ॥ ३१ ॥
I
१२. यत् प्रत्यपादि परमाणवः प्रतिभान्तीति एतन्नास्ति । न हि शपथशतैरपि 'निरंशाः परमाणवः प्रत्यक्षे प्रतिभान्ति' इति कश्चित् प्रत्येति । तदभावाद् अनुमानमपि 'यत् स्थूलं तत् सूक्ष्मपूर्वकम्' इति न तत्सैत्तां साधयति । नापि स्थौल्यं परमाणुभ्यो भिन्नम् । न हि परमाणवो भिन्नाः स्थौल्यं भिन्नं किचिदाभाति । एतदेवाह - यत इत्यादि । किं तर्हि अस्ति ? इत्याह-अस्ति इत्यादि । समानम् इति एकपरिणामपरिणतम् । रूपमिति - द्रव्यमिति । न तु तस्यामवस्थायां केचिदणवः सन्ति ।
९३. नन्वेवं द्रव्यमेव स्यात् इत्याशड्याह - केनचिद् इति । एतदुक्तं भवति - "केनचिदेव अंशेन एकः परिणामः न सर्वात्मनेति । ततः पर्यायात्मकं द्रव्यमाभाति न पुनः परमाणुसमूह " इति । तत् कथं न प्रत्यक्षं सविकल्पमिति । [ ३१ ]
१. चाक्षुषेण मुं० क० ।
२. इह किं मु० । ३. °पि वर्तेत अ० ब० । ४. 'दपि शेषा' मु० क० । ५. प्रतिभासेत् क० मु० । ६. चाभिन्न मु० । ७. भासताभ्यु° मु० । ८. स्यमपि न क० मु० 1 १०. क्षे सति भान्ति मु० । ११. न तत्संसा० क० मु० । १२. किं तर्हि, १३. भवति तत् कथं मु० ।
९. प्रतिभासते क० । अस्ति इत्यादि अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org