________________
८२
न्यायावतारसूत्रवार्तिकवृत्तौ
[२. प्रत्यक्षपरि०
योरिति । आधाराधेयभाव इति चेत्; न, तस्य पूर्वमेव निषेधात् । न हि उपर्यधोभावेन स्थितपदार्थद्वयव्यतिरिक्तः कश्चिदाधाराधेयभावः । न च तथा प्रतिभासे किञ्चित्पारत कयमिति । भिन्नानावभासित्वे का नाम कल्पना ? । अथ भिन्नदर्शनेन विशेषणविशेष्ये ऽनुभूय पश्चात्स्मरणं तयोस्तद्भावं प्रत्येति । तदेतद् इष्यत एव । शब्दोल्लेखिज्ञानं वस्तु योजयति । न • तु तथा वस्तुरूपमिति ।
६५. अथ शब्दयोजितं वस्तु भविष्यतीति । तन्न । न हि अर्थे शब्दाः सन्ति, तदात्मानो वेत्याशङ्कयाह - न तु शब्दार्थयोजनादिति ।
६६. शब्दश्च अर्थश्च तयोर्योजना न संभवति । [२७]
६१. तत्र हि अनवस्थां प्रतिपादयति' । तथाहि नास्मृतेन वाचकशब्देन अर्थो " योज्यते । शब्दस्यापि स्मरणं तद्वाचकशब्दस्मृतेः । तस्यापि स्ववाचकशब्दस्मृतेरित्यनवस्था । नच कल्पना ज्ञानाकार एवेति वाच्यम्, आकारवादप्रतिषेधात् । तस्माद्वस्त्वेव स्थूलं सावयवम् अनुभूयमानम्, केवलानामणूनामननुभवात् प्रत्यक्षं कल्पनायुक्तम् अवस्थापयति । किमत्रान्येन प्रमाणेनेति ? । एतदेवाह - निरंशेत्यादि ।
15
निरंशपरमाणूनामभासे स्थौल्यवेदने ।
प्रत्यक्षं कल्पनायुक्तं प्रत्यक्षेणैव सिध्यति ॥ २८ ॥ [ २८ ]
६१. ननु किमिदं स्थौल्यम् ? । किं परमाण्वात्मकम् किं वा परमाणुजन्यमिति ? | न तावत् परमाण्वात्मकम् । तद्धि पूर्वापरादिदिग्भेदमुपलभ्यते । न चैकस्य परमाणोरसावस्ति । बहूनां भविष्यतीति चेत्; नैतदस्ति । नहि निरंशपरमाणोः कश्चित् परमाणुः पूर्वः कश्चित् पश्चिमः उत्तरो दक्षिणो वा संभवति । तथाहि - यस्यावधिरूपस्यांशस्य 20 प्रत्यासन्नः एकः परमाणुः पूर्वो दृष्टः तस्यैवावधिरूपस्य अपरोऽपि प्रत्यासन्नः । ततः तदवधिरूपया प्रत्यासत्त्या यद्येकः पूर्वोऽपरोऽपि पूर्वः स्यात् । एवं शेषेष्वपि वाच्यम् । तन्न परमाण्वात्मकं स्थौल्यमिति ।
६२. नापि परमाणुजन्यम् । यतः परमाणुभिः किं संयुक्तैर्जन्यते किंवा असंयुक्तैरिति ? । तत्र यदि संयुक्तैः, तदा "पिण्डः स्यादणुमात्रकः” [ विज्ञ० विं० १२] तथाहि - परमाण्वन्तरेण 2 संयोगः किम् एकदेशेन किंवा सर्वात्मनेति ? । तत्र न तावत् प्रथमः पक्षः, निर्देशत्वात् परमाणूनाम् । द्वितीयपक्षे तु सर्वपरमाणूनामेकस्मिन् परमाणौ प्रवेशः स्यादिति ।
६३. अथासंयुक्ता योग्यदेशव्यवस्थिताः स्थौल्यं जनयन्ति । प्रतिभासं किं न जनयन्ति ? । तत्र बाधकस्य प्रतिपादनात् वरं प्रतिभासधर्मः । अस्ति हि कश्चित् वस्तुधर्मो नीलत्वादिलक्षणः । कश्चित् प्रतिभासधर्मः यो बहुषु प्रतिभासमानेषु प्रतिभाति, यथा • केशकलाप इति । तस्मान्न स्थौल्यम् वस्तु यत् सावयवं प्रतीयेतेति । एतदेवाह - नासंयुक्तैरित्यादि ।
१. वीति क० । २. दिग्मे मु० । ३. किं संयुक्तैरिति क० । किं संयुक्तैरुता संयुक्तेरिति मु० । ४. अनिर्दे० क० मु० । ५. भासं जन° क० मु० । ६. तत्र साध° मु० क० । ७. 'कस्याप्रति क० ।
८. कश्चित् धर्मो मु० क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org