________________
न्यायाबतारसूत्रवार्तिकवृत्तौ
[ ९. प्रत्यक्षपरि०
१८. अब पूर्वमर्थातित्वे किं प्रमाणम् ? । निषेधे किं प्रमाणम् १ । तर्हि अस्तु संशयः । नैतदस्ति । यतः किमेकमेव ज्ञानं क्षणस्थायित्वेन पूर्वापरयोः काळयोरर्थसतां न प्रतिपद्यते ?, किं वा अनेकानि परस्परकर्मतां न प्रतिपद्यन्ते, सर्वेषां वर्तमाननिष्ठत्वात् तेन ने विदन्ति १ । प्रथमप क्षणादूर्ध्वं न किचिदनुभूयेते । तचासन्मरणपर्यन्समनुभवस्य बाधि• तस्योत्पत्तेः । द्वितीयेऽपि ज्ञानानां परस्पराननुगमेऽपि आत्मना देशकालाकारीविपर्यस्तस्यार्यस्यानुभूयमानत्वात् । एतेन सहोपलम्भनियमो निरस्त: । 'सोदरे इव सहशब्दस्यैकत्ववा - चित्वात् विज्ञानार्थयोग्य भेदस्य प्रतिपादितत्वात् इति ।
८०
९. अथ सर्वे प्रत्ययाः निरालम्बनाः, प्रत्ययत्वात्, स्वप्रप्रत्ययवत् इत्यर्थाभावः । वईिं -ज्ञानात्म वेदनमपि प्रत्ययः । सोऽपि निरालम्बनः स्यात् । इष्यते एवेति चेत्; तदेवाह - . 10 शून्यं वा यदि वा ततः प्रतिभासमानत्वादिति । [ २४ ]
६१. तदसत् । यतो ज्ञानशून्यषादिनोऽनुमानं किं गृहीतव्याप्तिकमुदेति, किं बाऽगृहीतव्याप्तिकम् ? । अगृहीतव्याप्तिकं कथम् अनुमानम् १ । व्याप्तिग्रहणं च न तेनैवेतरेतराश्रयत्वप्रसङ्गात् । ज्ञानान्तरेण चेत् । कथम् अद्वैतं शून्यं वा ? । तन किश्चित् साधनम् अर्थनिरासे ज्ञानशून्यवादिनः । तदेवाह । ज्ञानशून्यवत इत्यादि ।
is
ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम् । संवित्सिद्धप्रतिक्षेपे कथं स्यात् तद्व्यवस्थितिः ॥ २५ ॥
६२. अनुभवसिद्धस्य चार्थक्रियाकारिणः सकलजन्तुसाधारणस्यार्थस्य निषेवे ज्ञानशून्ययोरपि कथं स्याद् व्यवस्थितिरिति । तदेवाह । संवित्सिद्धेत्यादि ।
६३. अथायमर्थः किम् अवयविरूपः किं वा परमाणुस्वरूप इति । तत्रावयविनो * भवद्भिरेव निरतत्वात् परमाणूनां अप्रतिभासनात् न बालोऽयमाकारः । किन्तु ज्ञानाकार एव तथा प्रतिभातीति । ननु ज्ञानाकारेऽप्येष प्रसंगो दुर्निवारः । तथाहि - तद्देशत्वातद्देशत्वेनीलत्वादिको विरोधः चित्राद्वैतेऽपि समानः । न च ज्ञानं परमाणुमात्रं चकास्ति । अथ यथा नाशस्यैकावयवावरणेऽपि अवयवान्तरप्रतिभासलक्षणो विरोधः नैवं ज्ञानाकारस्य । मा भूदयं नीलानीलादिकः केन निवार्यः १ । यथा चायमर्थः तथा सविकल्पकसिद्धौ प्रति* पादयिष्यति इति । अत्र बहुवक्तव्यम्, तब नोच्यते प्रन्थविस्तरभयादिति । [२५] ६१. तदेवं बाह्यमर्थ व्यवस्थाप्य इदानीं द्रव्यादीनां लक्षणमाह - पर्ययस्यन्तीत्यादि । पर्ययस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा ।
६२. पर्ययस्यन्ति क्षणिकत्वाद् व्यावर्तन्त इति पर्याया इति । उपलक्षणं चैतत् सहभाविनां गुणानां रूपादीनामिति । द्रबति गच्छति वांस्तान् पर्यायान् परिणामनित्यत्वादिति " द्रव्यमिति । [ २६' ]
६१. परपरिकल्पितं सामान्यं पूर्वमेव निरस्तम् । इदानीं स्वाभिमतं सामान्यं व्यवस्थापयन्नाह - सडशः परिणाम इत्यादि ।
१. वेन बिदु क० मु० । २. भूयते मु० । ३. तथासम्म क० मु० । ४. 'भवस्य बाधि० मु० । ५. लाकारविपर्ययस्या' मु० । ६. सादरे क० मु० । ७. 'वादिनोस्तु भ० ब० । ८. सिद्धस्येत्यादि मु० । ९शवानीलानीलखा क० । १०. पर्यवस्य° अ० मु० क० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org