________________
कारिका २४.]
बामार्थसिद्धिः। ६२. अपि च अनुभूयमानस्यापि स्वप्नदृष्टान्तेन यद्यर्थस्याभावो ज्ञानस्यापि अभावः स्यात् । स्वप्नार्नुभूतस्य चार्थस्यासत्यत्वं किम् अप्रतिभासमानत्वात् , किं वा अर्थक्रियावैकल्यादिति । न तावदाद्यः पक्षः। तदानीं तस्यानुभूयमानत्वात् । उपलब्धिः सत्तेति चाभ्युपगमः। अथार्थक्रियावैकल्यात् । तर्हि अर्थक्रियाकारी जाग्रहशायामर्थः सत्यः स्यात् ।
६३. विसंवादादिति चेत् । कोऽयं विसंवादः । ज्ञानान्तरेणाग्रहणमिति चेत्, तर्हि । जाप्रदशायां तदस्तीति सत्यता स्यात् । बाधितत्वमिति चेत् । किमिदं बाधितत्वम् । नेदम् इति प्रत्ययोत्पत्तिरिति चेत् ; जाग्रत्प्रत्ययेषु तदभावात् सत्यताऽस्तु । न हि सत्यस्तम्भप्रत्ययेषु कदाचिद्वाधकोत्पत्तिरस्ति ।
६४. अथ स्वप्नप्रत्ययेष्वप्यर्थक्रियाकारित्वं संवादो ऽबाधितत्वमस्ति । न च तेस्य सत्यतोपगता अर्थवादिना, तेन न तत् सत्यत्वे निबन्धनमिति । नैतदस्ति । सर्वाऽपि भ्रान्तिर-. भ्रान्तिनिबन्धना । यथा मरीचिकासु जलभ्रान्तिः । तथा च स्वप्नप्रत्ययेषु सत्यार्थक्रियानुभवपूर्वकं स्मरणमात्रकमेतू । न तु तत्र किश्चिदर्थक्रियावि, अन्यथा जाप्रवननुभूतस्य किं न कस्यचिदर्यस्य तत्रोपलम्भो भवति ।
६५. अपि च अर्थनिषेधः किं प्रमाणेन क्रियते, किं वा अप्रमाणेन ? । अप्रमाणेन कथं तनिषेधः १ । प्रमाणमपि तनिषेधकं किं वा विनाशकत्वेन, किं वा विपरीतार्थोपस्थापकत्वेन, " किं वाऽग्राहकत्वेनेति । प्रथमपक्षे सिद्धोर्थः । न हि असिद्धस्य विनाशः संभवति । द्वितीयेऽपि पक्षे अर्थोऽर्थस्य बाधक इति कथं नार्थसिद्धिः । अग्राहकं तु संदेहकारि भवतु कथं तनिषेधकम् ।। दृश्यस्य कथं नेति चेत् ; ननु पूर्वदृष्टस्यैकज्ञानसंसर्गिण्युपलभ्यमाने आरोपाद् दृश्यत्वम् । न चायमत्यन्तादृष्टस्य प्रकारः संभवति । ज्ञानात्मन्युपलभ्यमाने अदृश्यस्यापि तादात्म्येन निषेध इति चेत् ; भवतु ज्ञानात्मनो, न भिन्नस्य । अथ भिन्नस्थानुपलम्भात् . निषेधः । तत् किम् अयं नीलायाकारोऽनुभूयते न वेति ? । अथ अस्त्ययमाकारः किन्तु शानात्मैवे, जडस्य प्रकाशाऽयोगात् । तदेवाह-न जडस्खेत्यादि ।
न जडस्यावभासोऽस्ति भेदाभेदविकल्पनात् ।
न भिन्नविषयं ज्ञानं शून्यं वा यदि वा ततः॥२४॥ ६६. प्रकाशस्य भेदे जडस्य किमायातम् १ । अभेदे जडमेव न स्यात् । तेन न मिनविषयं ज्ञानम्, किन्तु आत्मविषयमेव । न हि अभिन्नप्रकाशतां दधानाः खम्भादयो जडा भवितुं युक्ताः।
६७. अय कोऽयं प्रकाशः १ । किं ज्ञानम्, अथ ज्ञानविषयता । प्रथमपक्षे स्यादिदम्। द्वितीये तु कथमर्यस्य ज्ञानता ? न हि प्रदीपेन प्रकाश्यमानाः स्तम्भादयः प्रदीपा भवन्ति । अथ तेऽपि प्रकाशखभावास्तदानीमेवोत्पद्यन्ते अन्यथा अन्धकारेऽपि प्रकाशेरन् । अखि, वावदन्धकारेऽपि स्तम्भादिः । प्रकाशपर्यायवा तु प्रदीपादुत्पद्यते । तथा अर्थस्य प्रकाशपर्यायवा ज्ञानाद्रवतु कथमर्थाभावः।
१. खमानुभवस्य ब०। २. लब्धेः अ०। ३. सत्येति क० मु०। ४. संवादावाधिक० मु०। ५. न च सत्य मु०। ६. °पि भ्रान्तिनिव मु०। ७. प्रत्यये सत्यर्थ मु० । खपप्रत्ययेषु सत्यर्थ क०। ८. मेव च न तु म०। ९. अदृष्टस्या क०मु०। १०. ज्ञानात्मनैव मु०। ११. प्रकाश्येरन् मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org