________________
७८
28
६१. योगजं व्याख्यातुमाह - जिनस्येत्यादि ।
जिनस्यांशेषु सर्वेषु कर्मणः प्रक्षयेऽक्रमम् । ज्ञानदर्शनमन्येषां न तथेत्यागमावधः ॥ २१ ॥
प्रत्यक्षम् ।
२. रागाविजयात् जिनः । तस्यासंख्येयात्म प्रदेशेषु ज्ञानावरणीयस्य प्रकर्षेण अवधि - योगजमनःपर्यायप्रत्यक्षापेक्षया क्षये । निमित्तसप्तमीयम् । तस्मान्निमित्तात् य उपयोगः सर्वत्राभिमुख्यलक्षणः आत्मस्वभावो दिनकरस्येव प्रकाशकस्वभावता न पुनः पश्यामीत्यस्मदादेरिष मनःसंकल्पो मनोऽभावात् । तस्मादुपयोगात् अक्रमं युगपत् । ज्ञानदर्शनमित्येकवद्भाबः एकत्वख्यापनाय । एकमेव सामान्यविशेषेषु योगिज्ञानम्, नान्येषामिति समनस्कत्वात् । rat नागमस्य "जुगवं दो नत्थि उवभोगा" [ आव० नि० ९७९] एवंरूपस्य वधः - त्यागः 1 सिद्धसेनार्कस्येत्यर्थः । तस्याऽजिन विषयत्वात् इति । केर्नैलिग्रहणं सिद्धान्ते अतिशयख्यापनार्थम् । केवलिनोSपि युगपदुपयोगद्वयं नास्ति, यदि मनः स्यात् इत्यर्थः । [२१]
६१. एवं संख्या-लक्षणविप्रतिपत्तिं निराकृत्य सामान्येन विषयविप्रतिपत्तिं निराकर्तुमाह - तत्रेत्यादि ।
न्यायावतारसूत्रवार्तिकवृत्तौ
तत्रेन्द्रियजमध्यक्षमेकांशव्यवसायकम् ।
वेदनं च परोक्षं च योगजं तु तदन्यथा ॥ २२ ॥
२. तेषु प्रमाणेषु इन्द्रियजम् एकांशेन - असाकल्येन न त्वेकेनैव । तथा स्वसंवेदन - मपि । एतदुक्तं भवति - अनन्तधर्माध्यासितं वस्तु न योगिप्रत्यक्षवद् इन्द्रियजप्रत्यक्षं - निश्चायति । अत एव तद् व्यवहारप्रत्यक्षम् । योगजं तु साकल्येन निश्वाययति । तेन निश्चयप्रत्यक्षमिति । [२२]
Jain Education International
१. इदानीं विशेषेण विषयविप्रतिपत्तिं निराकर्तुमाह - द्रव्यपर्यायेत्यादि । द्रव्यपर्यायसामान्यविशेषास्तस्य गोचराः ।
अविस्पष्टास्तयेव स्युरनध्यक्षस्य गोचराः ॥ २३ ॥
२. लक्षणस्य वक्ष्यमाणत्वात् तस्य प्रत्यक्षस्य विषय इति ।
[ २. प्रत्यक्षपरि०
बाह्यार्थ
६३. संक्षेपार्थमिहैव परोक्षस्य विषयविप्रतिपत्तिं निराकुर्वन्नाह - अविस्पष्टा इति । 2. अनिदन्तयाऽवभासमाना द्रव्यपर्यायसामान्यविशेषाः परोक्षस्य विषया इति । [२३] ६१. ननु वाह्यार्थाऽभावात् कथं द्रव्यादिना विषयवत् प्रत्यक्षादि ? । अत्रोच्यते । कथमर्थाभावः १ । तत्साधकप्रमाणाभावादिति चेत्; विशदतरदर्शनमेव तत्साधकं सिद्धिः । प्रमाणम् । स्वप्नदर्शनबदपारमार्थिकमिति चेत्; ननु किमिदमपारमार्थिकत्वम् १ | अर्थशून्यत्वमिति चेत्; इतरेतराश्रयत्वम् । तथाहि - अर्थशून्यत्वेऽपारमार्थिकत्वम्, अपारमार्थिक* मेऽर्थशून्यत्वमिति । येन चार्थो न दृष्टः स कथं ब्रूयाद् अर्थो नास्तीति । परप्रसिद्ध्या इवि चेत्; न, परप्रसिद्धेरप्रमाणत्वात् । प्रमाणत्वे च कथं तन्निषेध इति ।
1
६० मु० ।
४.
१. तस्याशेषेध्यात्म ब० । २. "तमी तस्मा' क० मु० । ३. नारामस्य मु० । केवलप्र० क० मु० । ५°लिनो युग० भ० ब० । ६. निश्चापयति मु० । ७. लक्षण ब० । ८. विषय इवि
वा कथं-क० मु० ।
९.
For Private & Personal Use Only
www.jainelibrary.org